स्वयं च जीर्यति, यथा च विषं विषान्तरं शमयति स्वयं च शाम्यति । यथोक्तम्
विद्यां चाविद्यां च यस्तद्वेदोभयं सह । |
एतदुक्तं भवति--विद्याविद्ये हे अप्युपायोपेयभावात् सहिते ; नाविद्य मन्तरेण विद्योदयोऽस्ति ; साध्या तर्हि, तथा च कृतकत्वादनित्यत्वम्, अत आह--अविद्यया मृत्युमिति । एषोऽर्थः--नाविद्या विद्यायाः साधनम्; किं तु अविद्यया श्रवणादिलक्षणयाप्यविचैव निवर्तते ; मृत्युरित्यविधेवोच्यते ; तस्यां निवृत्तायां विद्यारूपोपलक्षित'ममृतमश्रुते स्वरूपावस्थानं स्फटिकमणि रिवोपाध्याश्रयनिबन्धनोपरागत्यागात्; अन्तरेण प्रयत्नान्तरं विद्यास्वरूपेऽ वतिष्ठत इति । अन्योऽर्थःनाविधा विद्यरहितास्ति । तथाहि-भेददर्शन- मपि न प्रकाशशून्यम्; तदभावे न भेदः प्रकाशेत । तस्मात् पर एव प्रकाशस्तथा तथा प्रकाशते ; यथोक्तम्—« °तमेव भान्तमनुभाति सर्व तग भासा सर्वमिदं विभाति ” इति ; किंतु अविद्यानुबद्धः; यथोक्तम्-- सबै दर्शनमन्यूनमविकल्पं भविकल्पितमिव त्वयमान्तरः पुरुषोऽभिमन्यते “ । तथा न विचा ऐकारम्यश्रवणादिलक्षणा विनाविद्यया, श्रोतृश्रवणादिविभागानु बढत्वात; तत्राबिश्वयैव विद्याप्रत्यासन्नया विभागदर्शनमविद्यां तीर्वा विषा- लक्षणे नित्ये स्वरूपेऽवतिष्ठते, प्रतिबिम्बकलुषितमिवोदकं तन्निवृत्तौ । स्यादे तत्-ऐकात्म्ये विभागस्यासत्यत्रात् ,तदधिष्ठानश्रवणादयोऽप्यसत्याः कर्म कस्मैचित् कार्याय स्युः ? असत्याच्च सत्यप्रतिपत्तिर्मिथ्यैव, यथा धूम इति मिथ्यागृहीताद्ष्पादिति । उच्यते ; नायं नियमः--असत्यं न कस्मैचित्
कार्याय "भवतीति; भवति हि माया प्रतेर्मयस्य च निमित्तम् , असत्यं च
1विषान्तराणि 2 a sa. 1 3 लक्षणया विचैव निबेन्ते-B 4 विद्यया रूप B. 5 6 Comia उपाध्याभ्र वनिबन्धन; उपा |
7 विद्यायाः—B. 8 तस्याभोव–A. 9 Katha 2-2-15 10 बन्धः-c Ananda-pune reads अविचानिबन्ध. नः in hin commentary |
11 12 विकल्पमिव–A. 13 14 स्यासवात-A. 15 gानाः-A and B. 16 A onit सत्य 17 प्रभवतीति—B. |