स्वच्छाः प्रकाशस्वभावा अपि यदेवोपनिधीयते योग्यं च तच्छायापच्या तदेव दर्शयन्ति; एवमयं पुरुषो भोगायतनशरीरस्थो भोगसाधनेन्द्रियोपनी- तान् शब्दादीन् भुक्ते, तच्छायापस्या नित्यचैतन्योऽपि ; अतश्च न सर्वस्य सर्वदर्शित्वप्रसङ्गः; न च मुक्तौ बाह्यविषयोपभोगः। स्यादेतत्-सर्वगतस्य सर्वमेव विषयत्वेन वर्तते तत्र किमुपनेयम् ? उच्यते-यस्याप्यज्ञस्यात्मनो ज्ञानं मनःसंयोगादिजन्यम्, तस्यापि सर्वमनोभिः सर्वात्मनां ( संयोगात् कथ- मुपभोगव्यवस्था ? मनःसंयोगमुखेन सर्वे हि तद्विषया विषयत्वेऽस्य वर्त न्ते । अथास्य कर्मनिबन्धनत्वादुपभोगस्य कर्मनिमित्ता व्यवस्था, सा चिति. रूपात्मवादिनोऽपि दण्डवारिता । अपि च अस्याभेददर्शनपरिनिष्पच्या न सर्वस्मिन्नात्मभावमापने दृश्याभावादेव जैन दर्शनं दृक्स्वभावस्यापि दग्धुरिव वझेदाभावान्न दाहः, 'प्रकाशस्येव च प्रकाश्याभावान्न प्रकाश’कता। तदक्तम्—« °न हि द्रष्टुडेंटेविपरिलोपो विद्यते, अविनाशित्वात ; न तु तद्दितीयमस्ति ततोऽन्यद्विभक्तम् , यत् पश्येत् ® ¢ 'यत्र त्वस्य सर्वमात्मैवा- भूत् ’ इत्यादि । विज्ञानादिविशेषगुणनिवृत्तिलक्षणा च मुक्तिरुच्छेदपक्षान्न' भिद्यते ; न हि सतोऽप्यात्यन्तिको दर्शनाभावोऽभावाद्विशिष्यते । कश्च सर्वतः प्रेयसं आत्मनोऽभावमभिकाङ्क्षेदित्यपुरुषार्थो मोक्षः स्यात् । स्यादे तत्–विविधदुःखोपशमत्वादामोच्छेदोऽपि पुरुषेणार्येते; दृश्यन्ते हि तीव्र पापरोगग्रस्ताः स्वोच्छेदाय यतमानाः । सयं प्रवृद्धगदोन्मूलितनिरिवल सुरक्षा दुःखमयीमिव मूर्तिमुद्वहन्तः; न त्वेवं संसारिणो विविधविचित्रदेवा "द्यानन्दमागिन्: ; तत्र यथा विविधदुःखोपरमत्वात् पुरुषार्थत्वम्, तथा विविधसुखोपरमत्वादपुरुषार्थत्वमपि ; बस्य तु निर्गुष्टनिखिलदुःखानुषक्तं पर मानन्दसंवेदनावस्था तस्यैवैकान्ति पुरुषार्थत्वमित्यलमतिप्रसङ्गन ।
अक्षरमिति शब्दास्मतामाह, विशेषेण सामान्यस्य लक्षणात; अपरिणा मित्वं वा, परिणामे पूर्वधर्मनितुः क्षरणस्य भावात्, तद्युदासेन । इयं
1 नीयते --A. 2 मन्यभाव - C. 3 अदर्शनम्-A and B. 4 प्रकाशस्यैव च -A, B and C; C omits च . 5 Bomits क. |
6 B¢h. 4-8-28. 7 Brh. 4-5-15. 8 C adde हि after अ. 9 सत्ये B. 10 नन्दभोगभागिनःA 11 पशम--B. |
12 तथाविध-A and B. 13 क:--A. 14 धैः A 15 |