पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
49
तर्ककाण्डः

बस्तुस्वभावस्यितावितरेतराश्रयप्रसङ्गात् । अथवा यदुक्तम्-एकस्माल्ले दादव्यतिरेकाद्वस्तुनो भेदाभावप्रसङ्ग इति, तत्राहुः—न मेद एकः, रूपविरोधात्; एकत्वे च तन्निमित्तं वस्तूनामेकत्वं स्यात् ; तस्मात् प्रति भावं भेदो भिद्यते ; कथं तर्डनेकाश्रयत्वम्? अपेक्षातः ; तया हि प्रतियोग्यपेक्षे तस्य 'खरूपं व्यवस्थितम् ; तथा च यथा 'ययं भेदैः प्रति योग्यपेतैरात्म भूतैर्भिन्नाः सर्वे भावा इति । तत्रोच्यते-पौरुषेयमिति । पुरुषो कमर्थं गृहीत्वा परमपेक्षते कार्यार्थम् वहेतुभ्यस्तु प्रतिलब्धाविक उवभावानां भावानां मावान्तरेषु किमर्थापेक्षा ? ननु स्वभावस्थितये; नाना विधा हि भावस्वभावाः; तत्र कश्चित् प्रतियोग्यपेक्षयैव व्यवतिष्ठते वस्तु तवे; यथायमेव भेदः । न तर्हि हेतुभ्यो भावस्याविकलात्मलाभःभेदाः ल्यस्य रूपस्य प्रतियोग्यपेक्षत्वात् । हेत्वन्तराश्च प्रतियोगिनः संपद्यमानः पश्चाद्वेदो न स्वभावः स्यात् ।

स्यादेतत्–अवि'कलरूप एव भावो हेतुभ्यो जायते । तत्र भेदाख्यं रूपं प्रतियोग्यपेक्षम्, नानपेक्षी कदाचिदिति तस्य तद्वि घत्वात् तेन तद्विधेनैव सह जायत इति न विकलरूपप्रादुर्भावः । तत्रोच्यते-—भवतु तद्विधस्य प्रादुर्भावः; अपेक्षार्थस्तु वक्तव्यः बस्य हि यत्र किंचिदायतते, तत् तदपेक्षत इत्युच्यते ; नान्यो 'विशेषः सापेक्ष निरपेक्षयोर्यपस्थापको निरूप्यते । तत्र न तावदुपत्तिः प्रतियोगिभ्यायतते, खहेतुभ्योऽविकलस्योपत्तेः; नार्थक्रिया, तदसंनिधानेऽपि तस्यार्थक्रियादर्श नात् । प्रतीति चेत्--तथा हि, नानपेक्ष्य प्रतियोगिनं भेदः प्रतीयत इति न तर्हि भेदस्वभावः सापेक्षः; तस्मिन्नवस्थिते वस्तुस्थियुत्तरकाला प्रतीति रर्थान्तरमेव प्रतियोगिनमपेक्षते ; यथा व्यवस्थितानपेक्षस्वभावा रूपादयः असुरायपेक्षायां प्रतीतौ न सापेक्षस्वमावाः कथ्यन्ते । इतरेतराश्रया न प्रतीतिरपि परस्परायत्तावकल्पते । न च वस्तुमात्रादनवगृहीतभेदाद्देव सिद्धिः, एकस्मिन्नपि तत्रसङ्गात् । तस्मात् 'पौरुषेयीमपेक्षां न वस्त्वनुक्

र्तते; ‘अतो न वस्तुत्वभाव इत्यर्थः ।


1 0 omita स्व

2 B omit= यथे

3 0 omit वस्तु

4 कल्परूप-B

5 हेतुः--A and B

6 नवयौः-A

7 पौरुषेय्यपेक्ष-9; पर

8 त«4