पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
61
तर्ककाण्डः

गयभेदे; नान्यथा विप्रतिपचेरन् । सामान्यप्रत्यक्षे च विशेषप्रत्यक्षामिमा नात् ; अन्यथा धूमष्टाविवानौ परोक्षाभिमानः स्यात् । स्यादेतत्--न संबन्धमात्राद मेदप्रतिपत्तिः, अपि तु संबन्धविशेषात् समवायात; स हि वस्तुसंवेषात्मकः । तन्न, समवायेऽपि ताभ्यां रूपभेदस्यानपायात् , अन्यथा भेदाभावावसंबन्धात् । तथा च नैकान्येन प्रख्या ! युज्यते । अस्ति नेयम्। अतस्तया विरुद्धः प्रख्याभेदो न वस्तुभेदव्यवस्थायै प्रभवति ; खयं ‘बा । व्याहतत्वात, एकाधिकरणत्वेनोपपत्तेः ।

ननु मेदेऽपि परस्परात्मत्वेन प्रतिपत्तेर्निमित्तं समवायःतस्य सर्वेष सामथ्र्यातिशयःयेन भेदवतामर्थानां मेदं तिरोदधाति ; तथा च तेऽभेदेन प्रकाशन्ते । अत्रोच्यते

भेदान्तर्धानसामर्थे तस्य मेदेऽपि चेन्मतम् ॥ १३ ॥
हन्तैकस्यैव तत् किं न यदेवमवभासते ॥ १३१ ॥

समवायसामथ्र्यांचेझेदवतोरभेदावभासः , हन्त ! एकस्यैव वस्तुनः सामर्थ विशेषालनावभासोऽभ्युपेयताम्; व्यर्था वस्तुभेदकल्पना ; न अस्ति विशेषः-“यतो मित्रयोरभेदप्रकाशसंभवःनैकस्य नानावभोगसंभव इति ।

ननु ज्वलनायोगुडादिषु दृष्टमेवंविधं संसर्गस्य सामर्यम्; तत्र दर्श नात् संभवी संसर्गान्नंदवरख भेदावभासः; नैकस्मिशानावभासः, अदर्श नात् । उच्यते

दृष्टः संसर्गधर्मोऽयं यवेकमपि वै तथा ॥ १४ ॥
नानावभासते चित्रं रूपमेकं' तथा मतिः ॥ १४. ॥

दृष्टं खल्वेकमपि विविधावभासम् यथा चित्रं रूपम्ऽ तद्धि रवळ न नीलादिसमाहारमात्रम् ; तेषामवयवसमवाये रूपान्तरानभ्युपगमे "चावयविनो नीरूपत्वप्रसङ्गात् ; न च नीरूपत्वमेवावयविनः ; रूपसंस्काराभावे हि न स चाक्षुषः स्यात्; न च रूपिसमवायात् संख्याकर्मादिवच्चाक्षुषत्वम्; एवं युक्तम्-'महत्यनेकद्रव्यसमवायादूपाच्चोपलब्धिः इति ; सर्बनेष

मवयवी नीरूपः स्यात् । अथ नारूपः प्रतीयत इति नायं प्रसङ्गः


1 संबन्धाभावात्--B

2 च-A and B

3 नानात्वावमासौ—B

4 का--B

5 C omit

6 And B await स

7 Yai-Su. 4-1-8