चित्रोऽपि तथेति नारूपः; तच्चास्य रूपं नीलपीतादिनिर्मासः । तथा नगर त्रैलोक्यादिबुद्धयो विविधविषयाकार निर्भासन्ते मेदाभावेऽपीति विषयाकार ज्ञानवादिनो मन्यन्ते । न चैक'बुडितवाव्यतिरेकाद्विषयाकाराः परस्पर-
तोऽपि व्यावर्तन्ते, प्रागेव बुद्धेः । स्यादेतत् चित्रमपि रूपं संसर्गादेवैकार्थसमवेतसमवायलक्षणात् तथा वभासते । °तदसत्; यतः
न च संबन्धिसंबन्धः संसर्गं व्यवधानतः ॥ १५ ॥
संश्लेषो हि संसर्गः; ततश्च परस्पररूपावभासःस चाव्यवधाने युज्यते; न तु स्वाश्रयाभ्यां व्यवधाने ; अवयवावयविरूपयोरेकव्यवधानेऽ. प्यसंश्लेषः, किमु द्वयव्यवधाने ।
किं च
व्यवहारे परोपाधौ सर्वा धीव्र्यावहारिकी। |
यस्य खलु शुन्छो गौः’ इत्यादिबुद्धयो व्यवहाराङ्गभूता द्रव्येषु गुण’जा- स्युपाधिनिबन्धनाः तस्यैता न यथावस्तु, जातिगुणद्रव्याणामन्योन्यमथु न्तरत्वात् । तथा च न बस्तुनिबन्धनो व्यवहारः, उद्यानुपदर्शितस्याव्यव हाराङ्गत्वात् बुध्द्युपदर्शितस्य च तथाभावात् । एवं च प्रत्ययविर- चितेनैवायमथेन व्याख्या व्यवहारोऽनुवृत्तश्चेति व्यर्था वस्तुमेदकल्पना, कल्पितस्यापि तस्य व्यवहारेऽनुपयोगात इतरस्य चोपयोगात् । यथार्थ त्वाय 'हि व्यवहारिकीणां बुद्धनि वस्तुभेदः कल्प्यते; कल्पिते च तस्मिन् परोपाधित्वात् तासां नायथार्थवपरिहारः ।
स्यादेतत्--असति वस्तुभेदे अथथार्थमष्यनुवृत्तव्यावृत्तावग्रहं व्यावहारिक विज्ञानं नोदेतुमर्हति, बीजामावात्; न खळ स्थाणुशक्तिशकलादिषु पुरुष रजतादि विश्रान्तयो निर्वाजा|ः, सामान्यनिबन्धनत्वात् । उच्यते
अयथार्थघियो बीजमवश्यं बाह्यमेव न । |
1 A omits नगर 2 3 तदप्यसत्--A 4 दयः A |
5 जात्युपधाननिबन्ध नाः--A 6 तस्यैतत्-B 7 0 omitn च |
8 च--B 9 अपि च--B |