पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
67
तर्ककाण्डः

अननुगमादंशान्तरस्य किं न वस्तुनोऽननुगमः ? अपि च अननुगम एव, तस्य समुदायात्मकत्वादेकाभावेऽप्यभावात् । तथा हि--इतरेतरापेक्ष व' सामान्यविशेषौ वस्तु, तत्समाहारो वा ; उभयथार्थान्तरे ‘विशेषस्याभावान्न वस्त्वन्वयः । प्रत्येकमनपेक्षयोर्वस्तुत्वे नोभयात्मकमेकं वस्तु स्यादिति सुष्ट्र च्यते--तस्यानन्वयतो भेदवादः शब्दान्तरादयर्मिते ।

यदि बाल°भावनामभेदात् तदतवतः ।
अभेदवादाश्रयणं स्यादन्यविधया गिरा ॥ २२ ॥

अंशानुठच्या वां वस्त्वनुगमेऽद्वैतवादः । तथा हि---गौः स्वतस्तावनेः, सद्रव्यादिरूपानुगमादश्ववस्तुनोऽनुगमादश्वः, तदेवं गौरींश्चाश्वश्न ; अश्वोऽपि तावदश्वःसद्व्यादिरूपानुगमेन गवस्तुनोऽन्वयाद्रौः; तदेवमश्वोऽप्यधो गौश्च ; तदेवं सर्वभावानां तद्भवान्यभावाभ्यामभेद इत्यद्वैतं जगदित्युळमन्यः प्रकारया वाचा। सत्यम् , द्वैतमप्यस्ते ; यतस्तद्भवान्यभावाभ्यामभेदः । नैतत् सारम् ; गौरपि चेदश्वो गौश्र, अश्वऋ* ; तत् कुतोऽन्यत्वम् ? गैश्चश्वश्चेत्यपि भेदाभिधानमनिबन्धनमेव ; सिडे हि गवाश्वभेदे एतदुप पद्यते ; गवाश्वस्य तु प्रत्येकं गवाश्वत्वे भेदाभावादनिबन्धनमेव तत्। ननु विषशानां व्यात्तेरन्यत्वासिद्धिः; तथा च द्वैताद्वै'तात्मकं जगदिति । अथ विशेषव्यावृत्तेरन्यत्वसिद्धिः ; किमु भयरूपत्वाद्वस्तुनो वस्वन्तरेऽनुगमो नास्ति, यथबस्तु गोवस्तु न भवति ? अथास्यनुगमःअधोऽपि गौर्भवति ? तत्र पूर्वस्मिन् कल्पे बस्तुनोऽनन्यायादनुथतश्चावस्तुत्वाद्देवाद इत्युक्तम् । अथ विशेषव्यावृत्तावपि तद्वस्त्वनुगतम् , भवत्यधोऽपि गौः ; कुतोऽन्यत्व ! यदि गतम्---अनुगतं चाननुगतं चाश्वे गोवस्तु ; भवति चाधो गौः; गैस्तु गैरेव ;' भवत्येव हि तत्र गोषस्तु ; ततोऽन्यत्वसिद्धिरिति । अथ गोवस्तु कथं वक्तव्यम् ! किं यदौर्भवत्येव, अथ यन्न भवत्यपि ।

तत्र पूर्वस्यां कल्पदगं न बस्तुनोऽनुगम इत्यनन्वितानि वस्तूनि ; द्विती-


1 B omits वा

2 B omit त्रि

3 भेदानां-B

4 A omits 6A

5 एवं तदुपषयते-B and

6 B omits व

7 दैतै-B

8 अनुगतस्यावस्तु B अनुयाधिनश्चावस्तु C