तत् प्रमाणान्तरापेक्षा प्रामाण्यमतिवर्तते । |
विधिमन्तरेण न कार्योपदेशप्रतीतिः ; 'यथावस्थितं वस्तु तद्विधस्यानुवाद- मात्रत्वं गम्यते ; अनुवादश्च प्रमाणान्तरविषय इति तदपेक्षो भूतार्थो नार्थ उच्यत इति सापेक्षत्वादप्रामाण्यम् । विध्यर्थस्य तु प्रमाणान्तराविषयत्वात् तन्निष्ठमनपेकं प्रमाणं कर्मविधिवाक्यवत् ; प्रमाणान्तराविषयश्च विध्यर्थः; न हि ‘कुरु’ इति शब्दज्ञानादन्यतः प्रतीतिः । एवं च सति तस्वप्रति- पत्तिपरे वाक्ये यद्यपि वाक्यार्थबोध त पराचना प्रवृत्तिविधिफलं नास्ति, प्रामाण्यायैव तु विधिनिष्ठत्वमेषितव्यमिति । अत्रोच्यते
प्रमाणान्तरयातार्थभावः किमनुवादता । |
न मानान्तरलब्धार्थतया तस्यावबोधकम् । न तत् सापेक्षमेषा चेदभिनेतानुवादता ॥ १४ ॥ कः पुनरनुवादः —अधिगमान्तरसंभिन्नार्थत्वम् , मनान्तरेणाधिगत इति प्रति पादनम्? आहोस्विद्भतार्थतामात्रम् ? तत्र पूर्वस्मिन् कल्पे भवत्वधिगमान्तर संभिन्नार्थे सापेक्षम् । यतु भूतार्थमपि न मानान्तराधिगत इति बोधयति न तदनुवादकम्, न सापेक्षम्; पूर्वाधिगमसंस्पर्शान प्रतिपत्तेरभावात् । अथापरः कल्पः
सापेक्षनायाः को हेतुः शुद्धा सिद्धर्थता यदि । |
भूतार्थमात्रं चेदनुवादता न सापेक्षत्वहेतुरस्ति ; न भूतार्थतैव सापेक्षत्वहेतुः, भूतार्थयोरपि प्रत्यक्षानुमानयोरनपेक्षत्वात् । तस्मादृतार्थोऽभूतायै वाधिगमान्तर-
संस्पर्शः प्रमाणान्तरापेक्षाहेतुः, स्मृतौ दर्शनात्; सा धधिगमान्तरसंभिन्नार्थेति
1 यथात्व-A |
2 B and comit एव |
3 भूतार्थ-A |