पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
85
नियोगकाण्डः

यदि मतम्—आख्यातपदार्थमन्तरेण न नामपदार्थानां संसर्गः ; क्रिया हि पदार्थसंश्लेषहेतुःतदभावे साकाङ्क्षवात्; अतः सिद्धोऽर्थों बझादिर्न शब्दगोचरः, पदस्याविदितसंगतिस्वेनानवबोधकत्वात्; न वाक्यार्थः तस्य संसर्गात्मकत्वात्; क्रियारहिततानां च पदार्थानामसंसर्गात् । एवमपि क्रियाभ्युपेयताम्; तद्रेण च पदार्थसंसर्गसिद्धिराशास्यताम्; न विधेः कश्चिदर्थः । सापिं च क्रिया सर्वत्र सुलभेवाधूयमाणाप्यस्त्यादिः 'अस्ति- र्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽ‘षि गम्यते ’ इति । तत्र बह्मस्वरूप प्रतिपत्तिपरं वाक्यमस्यथनिष्ठम् ; तन्निबन्धनस्तत्र पदार्थसंश्लेषः ; सत्तायाश्च प्रकृत्यैव सरप्रधानत्वात् तद्वारण विशिष्टवस्तुसिद्धिरिति ।

अत्राहुः--न प्रमाणावगम्यताया अन्या काचन सत्ता ; तथा हि--यत् प्रमाणेनावगम्यते तत्र ‘अस्ति’ इति व्यवहारो लौकिकानाम्, विपर्यये ‘नास्ति इति; न वम्वन्यः सदसद्विभागहेतुर्लक्ष्यते । अर्थक्रियाभावाभावौ चेत्; न, तयोरपि प्रमाणभावाभावाधीनत्वात् ; तथा हि--कार्येऽपि सद्वचवहारो यदि कार्यान्तरनिबन्धनःअनवस्था ; तस्मादन्ते ऽपि प्रमाणादेव सहृयवहारः तद्विपर्ययाच्चासद्वयवहारः ; एवं चेदादावेव प्रमाणभावाभावनिबन्धनौ सदस- इयवहारौ स्ताम् । तथा चास्त्यर्थनिष्टं वाक्यं प्रमाणान्तरापेक्षमेवार्थं बोध यति, प्रमाणविषयताया अस्त्यर्थवात् ।

अत्रोच्यते--

न च मानावगम्यत्वमसीतिविषयो मतः ।
मानादेव यतो बुद्धिरभूदस्ति मविष्यति ॥ ३० ॥
धूमादिना मिते हि स्याद्दद्यादावियमन्यथा ।
भिवेतोत्तरकाले वा भवन्ती न खलु त्रिधा ॥ ३१ !

न प्रमाणावगम्यत्वमस्त्यर्थःन अस्ति’ इति बुडैस्तत् विषयः; यतः प्रमाणादेव

त्रिधा बुद्धिर्भवति--'धूमादस्त्यत्राभिः ’ ‘नदीपूरविशेषादभूदृष्टिः’ ‘मेघोदय-


1 पदार्थसंसर्गः--A

2 संसर्ग--A

3 o omit७ च

4 MahabhUsya 2-8-1

5 अधि--B

6 E Yeade येन for चैत्;न