पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
92
ब्रह्मसिद्धिः

सर्वशक्तिविरहो बासटुडेर्विषयः ; सर्वथा तया प्रमेयम । अपरिच्छिन्नं हि तथा प्रमाणेन किमिति तद्विधम्, न पुनरन्यथा स्यात् ? न चेत् तस्य तथाभावेऽतथाभावे वा प्रमाणव्यापारः, किंनिमित्त एकपक्षानुरागः ?

अपि च

अमित्वा कण्ठकामावं चरणे न्यस्यते कथम् ।
नान्यग्रहात्तस्य भावे पुरस्ताच प्रसङ्गतः ॥ ४२ ॥
जिज्ञासा न प्रवर्तेत यदि संवित्त्यभावतः । ४२: ।

'दृष्टिपूतं पदं न्यसेत् ’ इति कीटकण्टकाद्यभावेऽप्रभिते कथं ‘तल्यासः । तथा हि-कीटकण्टकाद्यर्थान्तरभूतलादिपरिच्छेदात् स स्यात् , आपद्य- परिच्छेदात् , अभावपरिच्छेदाद्वा । तत्र न तावदर्थान्तरपरिच्छेदात६ कण्टकादिभावेऽपि प्र*सङ्गात् ; तत्रापि वस्त्वन्तरपरिच्छेदस्य सर्वात् ; प्रागपि च भूभागपरिच्छेदात् प्रसज्येत, यस्य कस्यचिद्वस्त्वन्तरस्य परिच्छि तेर्विद्यमानत्वात् । अथ कीटकण्ठसद्यपरिच्छेदात , न तद्भावाभावजिज्ञासा स्यात् । जिज्ञासा'पूर्वकादपि प्रयात् तदपरिच्छेदमात्रमेव प्राप्यते यस्या भावो न प्रमेयः; तच्च प्रागपि ततोऽस्ति ; अभावे तु प्रमेये अभाव निश्चयाय जिज्ञासा युज्यते । न चापरिच्छेद एव जिज्ञास्यः‘स्वतः सिद्धत्वात् ; परिच्छेदेन हि स निबर्यते ; अप्रमेयत्वाच्च सोऽपि खल्वभाव इत्वप्रमेयः ।

अथ मतम्—सत्सूपलम्भहतेषु प्रमाणविषयस्यापरिच्छेदात् प्रवृत्तिः ;

वदसत्;

प्रमाणविषयत्वस्य नोपयोगोऽत्र दृश्यते ! ४३ ॥

असद्धेऽनन्यहेतुभानेन पुपयुज्यते । ४ ३३ ।।

अपरिच्छेदाचेत् प्रवृत्तिर्न प्रमाणविषयत्वस्योपयोगः, इतरत्राप्यपरिच्छेदस्य

तुल्यत्वात् ततश्च प्रवृत्तेः । यस्य त्वभावः प्रमेयः, तत्परिच्छेदात् प्रवृचिः


1 6-46

2 तस्य न्यासः-A and

3 सङ्गतः—A

4 पूर्वादपि-A

5 स्वरसतः-A