तस्यामन्यनिमित्तत्वेनोपयोगवत् प्रमाणविषयत्वम्; नायमपरिच्छेदः सत्ये बार्थे हेतुवैफल्यनिमित्तः;समग्रत्वा'सडेतूनाम्; तस्मादर्थाभावादिति ।
अथ यत्र प्रवृत्तिः स्यात्तत्र केवलसंविदः ॥ ४४ ॥ |
यदि मतम्--यत्र भूभागादौ चरणन्यासादिलक्षणा प्रवृत्तिः , तस्य केवलस्य सा ज्ञानादिति । तत्रापि संप्रधार्यम्--किमिदं ज्ञानस्य कैवल्यमभिसंहितमे कविषयप्रतिनियमो विषयान्तरासंसर्गःआहोस्खिद्विषयस्य ? यदि विज्ञानस्य, प्रमितेऽपि भूभागादौ स्थूले सूक्ष्मकीटकण्ठकादिभावाभावपरीक्षा न स्यात्; प्रवर्तेतैव, केवलभूतलावग्रहज्ञानात् । अथ विषयस्य, तत्रापि संप्रधार्यम् स्वरूपेण ‘वा विषयस्य कैवल्यम् , बिशेषणयोगेन वा । तत्र न तावत् खरूपेण, मिश्रेऽपि तस्य भावात् । विशेषणयोगेन कैवल्ये प्राप्त कीट- कण्ठकायभावविशिष्टपरिच्छेदात् ” पदन्यासादिलक्षण प्रवृत्तिः ; यतो नान्या भावाद्विशेषणमन्यादृशं किंचिद् दृश्यते, यद्विशेषणं वस्तु केवलं स्यादिति ।
नास्तीति धील्यवहृत विषयं कमुपाश्रिते !४ ६ ॥ |
अपि च अनेन नास्ति ’ इति बुद्धिशब्दयोर्विषयो वाच्यः । स न वस्तुखरू पेण, मिश्रेऽपि प्रसङ्गात् ; न केवलम् , अभावादन्यस्य विशेषणस्याभावादित्यु क्तम् । ननु ‘नास्ति' इत्ययमर्थः ‘नेदं प्रमीयते ’ इति, न पुनरभावोऽवगम्यते; विरुद्धमिदम्-नास्त्यवगम्यते चेति । यद्येवं प्रमाणाभावो विषय उक्तः
स्यात् ‘नास्ति' इति धीशब्दयोः , तत्र कोऽपराधः स्यात् प्रमेयाभावस्य, येन
1 A omits त 2 स--B 3 न-B 4 न्य—B |
5 A adds तत्र 6 सा-A 7 B omits वा |
8 ल्य--B 9 Bomits त 10 B omits स्व |