ननु प्रमान्तराधीनसंसर्गाः पुरुषोक्तिषु ॥ ७० ॥ |
विवक्षितार्थनिष्पत्तये हि लोके पदानां समभिव्याहारः । नैकपदसाध्यो विवक्षितार्थः । प्रमाणान्तरोपलब्धश्च विवक्षाविषयः । तेन तत्र प्रमाणान्त रायतः' संसर्गः । तथा च तद्विरोधेऽतंसर्ग एव पदार्थानम्-- 6 6. जरद्भवः प्रादुककम्बलाभ्याम्” इति । वेदे तु प्रमाणान्तराभावाद्दिधिनिबन्धनोऽसौ । तदभावे त्वसंभवाद्ययं विशिष्टार्थगतिरुच्यते सा भ्रान्तिः, समभिव्याहारात् । सोऽयं विवेकाग्रहे संसर्गग्रहविभ्रमः ! अत्रेदमेव विचार्यम्--कथं लोके प्रमाणान्तराधीनः संसर्गः ! इति । यदि प्रमाणान्तरेण तदवगमात् ; तदसत् , अपूर्वस्यापि तस्य प्रतीतेः; अन्यथा वचनैवैयर्यात्; अनधिगतं हि श्रोतुर्थं बोधयितुं वचः प्रयुज्यते । अथ संसर्गयोग्यतामात्रस्य प्रमाणान्तरे- णावगमात् , समानमेतद्वेदे; तथा हि—अरुणय क्रीणातीति संसर्गः नारुणयैकहायन्येति । तथा भावार्थं नियोगविषयः , न द्रव्यगुणशब्दार्थ इति प्रमाणान्तरावसितयोग्यतासामथ्र्येनैव व्यवस्थाप्यते * अथ न विवरै क' पदावगम्य, तदर्थमात्रविवक्षाया निष्प्रयोजनत्वात्; तस्माद्विवक्षाविशेष सिडिनसंसृष्टेषु पदार्थेषु 'भवतीति तया विवक्षया प्रयुक्ताः संसृज्यन्ते ; सा च प्रमाणान्तरसिद्ध इति । एवमपि विवक्षनिबन्धनः स्यात्, तरप्रयु
क्तानां संसर्गात् ; न प्रमाणान्तरनिबन्धनः ; यतो न तत्तस्य प्रतिपादकम्,
1 व्यध्य-B 2 न गतिभ्रान्ति-B 3 क्षितोऽर्थः--A ; क्षातोऽथे:-B 4 यत: संसर्गाः-B |
5 6 व्यवहारा B 7 पदगम्या–A and B 8 संभवतीति-A and B |