पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
104
ब्रह्मसिद्धिः

शब्दादेव मिते योऽपि अन्यते संगतिग्रहम् ॥ ७ ॥
नान्योन्यसंश्रयाघथं न वयं प्रमिते हि सः ।
परेण शब्दाधगते तत्प्राच्यां च सुचिते ॥ ७९ ॥
पदार्थान्तरवत् तत्र सुकरः संगतिग्रहः ॥ ७९६ ॥

योऽपि भन्यते--न’ प्रमाणान्तरसिद्धे विध्यर्थं संबन्धज्ञानम्; अपि तु शब्दसिद्ध एव । न चान्योन्यसंश्रयदोषः--शब्दात् सिडे संबन्धनम् संबन्धज्ञानपूर्विका 'च शब्दात् सिद्धिरिति; यतो न वयं शब्दात् प्रमिते तदुच्यते; किंतु वृद्धप्रयुक्काहृद्धान्तरेणावगते ; तदवगमाश्च तस्य वृद्धस्य या प्रवृत्तिस्तयानुभिते—‘नूनमनेन वृढेन प्रतिपन्नः कश्चित् प्रवृत्तिहेतुरथऽ - स्माच्छब्दात् , येनायमेतच्छूवणात् प्रवृत्तः' इति ; यथा-' गामानय' इति । सास्नादिमदानयनदर्शनात् तस्मात्ययमनुमाय तत्र संबन्धग्रहणमिति ।

तस्यैवमनुमेयस्वे कथं शब्दैकगोचरः ॥ ८० ॥
तस्यापि शब्दपूर्वत्वादनुमानैकगोचरः ।
कस्मान्न शब्दबोधोऽपि हनुमानपुरसरः ॥ ८१ ॥
नेदंप्रथमता ख्भ्या बीजाङ्करवदेतयोः ।
शब्दाद्वुधनुमानं सर्वस्यैव पुरः स्थितम् ॥ ८२ /
पदार्थान्तरवत् तेन तस्य शब्दोऽनुवादकः ।
अनुमानाङ"यमानः शब्दाट्ठं न बुध्यते ॥ ३ ॥
प्रतिपन्नन्तरे बोधो नान्यबोधानुवादकृत् ।
प्रवृत्तिहेतुमात्रं च शब्दर्पः स्यादलोकिकः ॥ ८४ ॥
न' स कल्पयितुं शक्थस्तत्सिद्धौंकिकादपि ! ४. ॥


1 0 omits च

2 प्रयोगात्-A and B

3 भनवगत-B

4 अ-B

5 घनुमानः-B