पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
नियोगकाण्डः ३

न प्रवृत्तिनिवृत्तिभ्यामन्यद्वाक्यप्रयोजनम् ।
प्रतिपत्तिविषौ तुल्यं यदि सैव प्रयोजनम् ॥ ९२ ॥
समानमेतदर्थं च समर्पयति चेदयम् ।
प्रक्रियोपासनाधिकारसिडिव्यपेक्षितम् ॥ ९३ ॥
हन्त तर्हि स्वरूपे तन्न बचः पर्यवस्यति ।
तुर्यमेतत् समाते च वाक्यं वाक्यान्तरनुगम् ॥ ९४ ॥
नियोगानुप्रवेशोऽस्ति तावद्यदि वृषान्यथा।
तच्यावबोधविध्यंशस्तावदेवं समुद्धतः ॥ ९५ ॥
ननूत्पत्तिविधिः कर्मरूपबोधे व्यवस्थितः।
यथा तत्वज्ञानविधिस्तथा लोधेऽवतिष्ठताम् ॥ ९६ ॥
अधिकारात् प्रवृत्तिश्च मत ! कर्माधिकारवत् ।
अज्ञातज्ञापनमतोऽथाप्रवृत्तप्रवतेनम् ॥ ९७ ॥
विधिमाचक्षते धीरा इत्येतदपि तादृशम् ।
कर्मखरूपावगमस्तत्र नेष्टं विधेः फलम् ॥ ९॥
किं तु कार्यव्यपेक्षस्य फलवाक्येन संगतिः।
इहाधिकारसंबन्धो यस्य तन्न विधीयते ॥ ९९ ॥
तवं तावबोधस्य नाधिकारप्रवेशिता ।
न हि त्रीवादि विषयं प्रत्यक्षमधिकार मानू ॥ १०० ॥
सोपायमन्यत् तर्हद शब्दाज्ज्ञानं विधीयते ।
प्रलीनग्रहणग्राणविभागोब्राहमद्वयम् । १०१ ॥
न हि मिन्नर्यसंसर्गरूपवाक्यार्थधीपदम् ।
आत्मतवं निष्प्रपञ्चमित्येतदपि पेलवम् ॥ १०२ ॥
अद्वयात्मप्रकाशोऽसावनवच्छेदविभ्रमः।
स्वात्मस्थितिः सुप्रशान्ता फलं तन्न विधेः पदम् ॥ १०३ ॥
तत्साधनावबोधे हि विधातृव्यापृतिर्मता।
अपेक्षितोपायतैव विधिरिष्ठो मनीषिभिः ॥ १०४ ॥