पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
16
ब्रह्मसिद्धिकारिकाः

स्वरूपानर्पणदेवं भवेदग्रहणेऽपि ते ।
कस्यचित्स्वर्पणं तुर्यमथ तत्र न तत्तथा ॥ ११८ ॥
परस्यापि हि तत्रैवमथ तत्र तथा स्थितेः।
सर्वत्र स्यात्तथाभावः स्यादेवं प्रहणेऽपि ते ॥ ११९ ॥
यथा तत्रानिमित्तत्वात् सम्यग्ज्ञानेऽनिमित्तता ।
शङ्कयते ग्रहणेऽप्येवमग्रहे सा निरूपिता ॥ १६० ॥
ज्ञानादेव निमित्तत्वमन्येषां न विशिष्यते ।
अवघातप्रोक्षणादेर्यथा द्रव्यार्यत रिथता ॥ १६१ ॥
ज्ञानं स्वभावांष्ट्रव्यार्थं कर्मत्वाच्चावमनस्तथा।
भवत्वेवं तथापीष्टरूपसिद्धिः कुतो मता ॥ १६२ n
शब्दस्तदर्थकार्यत्वे तावज्ज्ञानस् निष्ठितः ।
ज्ञानाज्ज्ञेयस्य कोऽन्योऽर्थः स्वरूपप्रतिभासनात् ॥ १६३ /
अदृष्टकल्पना युक्ता न च दृष्टस्य संभवे ।
तस्माद्यथा प्रोक्षणादिविधेर्वीहिषु गम्यते ॥ १६४ ॥
अदृष्टा संस्कृतिसँनविधे रूपं तथात्मनः।
उक्तोत्तरमिदं यस्मादरूपेणापि भासकम् ॥ १६१ ॥
ज्ञानं प्रदर्शितं न स्यादन्यथा तद्विधेः फलम् ।
लयो निवत्यं न तथा विक्षेपो हि यथासुरवः ॥ १६६ ॥
लयविक्षेपभेदश्च न स्यादग्रहमात्रके ।
नन्वरूपावभासे स्यादृष्टफलकल्पना ॥ १६ ७ ॥
रूपावभासे दृष्टं तु फलं तत्सिद्धिलक्षणम्।
न दृष्टमात्राद् दृष्टार्थं पुरुषार्थानुगं तु तत_ ॥ १६८ ॥
न भिद्यते च तद्भवो रूपारूपावभासयोः ।
यथा प्रपशशून्यत्वे तच् ज्ञानावभासिते ॥ १६९ ॥
दुवकर्मक्लेशहानमतवेऽपि तथा भवेत् ।।
एतच्छात्र भर्वेद्युक्तं प्रत्यक्षाद्यविरोधतः ॥ १७० ॥
अनौपचरितार्याध स्युः कर्मविघयो यतः ।
जानातिस्तवमोधे चेझ मिथ्यादिविशेषणात् ॥ १७१