न च शष्कुलीभक्षणे गन्धरसादिज्ञानवदयौगपद्येऽपि . नैरन्तर्यायौगपद्य- भ्रम इति वाच्यम् ; तत्र रसादिग्राहिणमिन्द्रियाणां भिन्नत्वादणुतरेण मनसा युगपदधिष्ठानाशक्तेर्युक्तमयौगपद्यम् ; इह तु कृतनदेहमभिव्याप्या वस्थितेन त्वगिन्द्रियावयविनैकेन तोयेनार्थसंयोगिना सकृन्मनःसंयोगविष्ठि तेन चित्तेन सितासितज्ञानवदेकं शीतोष्णग्राहि ज्ञानमुषजन्यते; तेन च सुरवदुःखें युगपज्जन्येते; ते च मनःसंयोगविशेषाद्युगपदेकत्र ज्ञाने प्रतिभातःतस्मात् सूक्तम्-युगपत् सुखदुःरवयोर्दर्शनादिति । अत्राशङ्कयति- अयेति । अथ सत्यपि शतहदेऽनिमनर्घकायद्दरे दुःखम् ’ इतरस्य निम आर्धकायद्वारस्य दुःखस्याभावात् सुखित्वमित्युच्यत इत्यर्थः । एवमाशङ्कय दूषयति - कुम्मीति । कुम्भीपाके नरके पच्यमानस्य पुंसो रौरवादिनरकान्तर दुःखस्य भुक्तस्य प्रध्वंसाभावादभुकस्य च प्रामावात सुरिवत्वप्रसङ्गः स्यात् । न च तदिष्टम्; नरके हि सुखासंभिन्नमैकान्तिकदुःखम । तदिद मलोकमागममात्रसुज्ञेयमिति लौकिके विषयेऽतिप्रसङ्गदोषमाह---एकेति । एकेन्द्रियद्वारं दुःरवं यस्य पुंसः स तथोक्तः । तस्येन्द्रियान्तरद्वारदुःरवा- भावात्; सुखित्वप्रसङ्ग इत्यनुषज्यते । हेत्वन्तरमाह--इतश्चेति । इतश्र न दुःखाभावः सुवमित्यर्थः । कुत इत्याह--अदुःखस्येति । नास्ति दुःखं यस्य पुंसः सोऽदुःरवः, तस्य कर्नूरादिविषयविशेषेण संयोगात संवेद्यस्य हादस्य सुखस्योत्पत्तेरित्यर्थः। संवेद्यग्रहणमनुभवसिद्धत्वान्नांस‘नस्ति’ इति वक्तुं शक्यत इति दर्शयेतुम् । नादुःखस्य दुःखप्रध्वंसः सुखम्, असतो ध्वंसायोगात् न च दुःखप्रागभावःतस्य विषयैरजन्यत्वत् ; अस्य च विषयजन्यत्वात्; ताभ्यां सुवमन्यदेव तत्र संवेद्यत इति भावः । यत्र तर्हि क्षुदादिदुःखमस्ति तत्रान्नपानादिभिस्तत्प्रध्वंसः सुरवं किं न स्यादित्याशङ्कयाह--यत्रापते । कुत इत्यत आह-अनेति । सुरसाम्भःसुशीतलान्नपानोपादानादित्यर्थः । नन्वनपानाविशेषोपादानात् तदुःखविगम एव भविष्यतीत्याशङ्क्याह-यैस्तै रिति । यादृशैस्तादृशैरखदुभिरपीत्यर्थः। ननु दुःखविगमविशेषार्थमेवान्नपान- विशेषोपादानं भविष्यति; दृष्टो हि कारणविशेषात् कार्यविशेष इत्या शङ्कयाह-न चेति । दुःखाभावस्यातिशयाभावादिति भावः । भावरूपे तु सुवे तस्यातिशयववात् तदर्थं सुखसाधनविशेषापेक्षा युक्ता। तदुक्तम्-सुवे त्विति।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३४०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति