पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20 ब्रह्मसिद्धिव्याख्या त्वप्रसिद्धिः ; अथ च तच्वतः प्रकाशविशेष एव सवितरि प्रकर्षेः; स च शब्दद्वयेन प्रतीयते, एकैकस्मादप्रतीतेरिति ‘न च प्रकृष्टप्रकाशशब्दयोः इत्यादि सूक्तम् । एवमानन्दशब्दस्य दुःखाभावोपाधित्वं दुःखभावार्थत्वं च निरस्येदानींमानन्दस्य ‘‘एषोऽस्य परमनन्दः” इति या परमता धृता, तामपि ये सर्वे परवशं दुःरवम् " इति विषयसुखोपायस्रक्चन्दनादि पारतन्यरूपायास्तदुच्छेदरूपायाश्च दुःखिताया अभावादौपचारिकीमाहुः, तान् निराकुर्वन्नाह--परमतामिति । प्रमाणान्तरगोचरो हि तदनुसारेण वण्र्यते, शब्दकगोचरस्तु शब्दशक्तयनुसारेण प्रहीतुमुचित इति भावः । कुत इत्याह -न हीति । विरोध्यसंसर्गादति ; आनन्दविरोधिनो दुःखस्याभावादित्यर्थः । । प्रकरणार्थमुपसंहरति - तस्मादिति । आत्मप्रकाशेतिं स्वप्रकाशत्वेन विज्ञान रूपताम्, प्रछष्टेति च मुख्यां परमताम् , आनन्दवभावाति च दुःरवभावस्य मावत्वानुपपत्तेरानन्दस्य आवरूपत्वममेदं च स्चयतीति विवेक्तव्यम् । भाव रूपानवच्छिन्नानन्दखभावत्वे च ब्रह्मणो यत् एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ” इति लौकिकं सुखं परमानन्दस्य मात्रेत्युक्तं तदपि घटत इत्याह-एवं चेति । मात्रा एकदेशःअल्पो भाग इति यावत् । कुत इत्याह— अवच्छेदादिति । भावो ह्यनवच्छिन्नो विषयैरवच्छिद्यापीकर्तुं शक्यते यथा आकाशं घटादिभिः, नाभवः रवपुष्पाद्यभाववत् । तदुक्तम् - दुःखनिवृत्ताविति । भावरूपानन्दस्य खभावत्वे हेत्वन्तरमाह--इतश्चेति । परमप्रेमाविषयत्व हंतु श्रुत्या साधयति -धूयत इति । न केवलं श्रयते, अनुभवांसेडं च तदित्याह-प्रतीयते चेति । अनुभवमाह--तथा हीति । आत्माशीरिति ; आत्मन्याशंसेत्यर्थः । तामाह--मेति । ततः किमित्याह सापीति । न केवलं भृतिः, अपि तु साप्यात्माशीः इत्यपिशब्दार्थः । तथापि किमित्याह--प्रेमा चेति । दुःरवत् दोषःसुखदुःरवोभयरूपरहिते वोपेक्षणमिति विवेकः । आत्मनः सुखात्मकत्वानुभवे मतान्तरमाह अन्ये त्विति । सुषुते सत्यनन्तरं प्रतिबुद्धस्य परामर्शादित्यन्वयः । कथं पुनरस्मात् परामर्शदनुभवसिद्धिरित्यत आह - न हीति । अनुभवपूर्वकत्वात् परामर्शस्य ततः स कल्प्यत इत्यर्थः । किं च सर्वथाननुभवे ‘अवाप्सम्' इत्यप्युपगमोऽपि न स्यादित्याह- सुषुप्तेति । ‘न स्यात्' इत्यनुवर्तते । नन्वे ==