पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बद्धकाण्डः 29 मवाप्तव्यं वा’ इति पक्षद्वयेऽपि परतोऽनुवर्तते । इति ये प्राहुः तान्प्रत्याह अमृतमजामिति । तत्र परोक्तं तावद्दषद्वयं परिहरति--न चेति । नन्वनादि- रविद्या ब्रह्मवत् तदनुच्छेद्यत्यत आह – सर्वेति । सर्ववादिसिद्धत्वान्नेदं वयमेवोपालभ्याः ; दृश्यत च प्रागभावस्यानादेरप्युच्छेद इति भावः । पर इदानीमाह - नेति । नित्यत्रझख मावस्याविद्यारूपस्यानुच्छेद इति ब्रूम इति पूर्वेणान्वयः । स एवाशङ्कय दूषयति--अथेति । ततश्च दैतप्रसङ्ग इति भावः । अथैतद्यार्थान्तरमपि सा नेप्यते, ततो न सा स्वभावःन चार्थान्तरामति नास्त्येव ; अतः किं निवर्यमित्याह--न वेति । पर. पुनराशङ्पयति - अथेति । नाविंद्या ब्रह्मणः स्वभावःतथापि न दैतप्रसङ्गः ग्रहणभावरूपाया अवस्तुत्वेनानर्थान्तरत्वात्; न च तत एवानिवर्या, सर्वप्रमाणानां प्रमेयाग्रहणनिठ्यर्थवादत्यर्थः । तदनिवर्तकत्वे सत्यपि प्रमाणे प्रमेयाज्ञानमनुवर्तेतेति भावः एवमाशङ्क्य दूषयति - तदपीति । कुत इत्याह तच्चेति । यस्मात्तवाग्रहणात्मकवद्य तद्विरुद्धया तवग्रहणात्मिकया विद्यया निवर्यो नान्येन ; सा च बह्वभाववन्नित्या ; अतो नित्यानिवृत्तै वाबिचेति न तन्निवृत्यर्थत्वेन शस्त्रादीनामर्थवत्तेति भावः । अथ ब्रह्मणो नाविद्या, किं तु जीवानां ब्रह्मविषया ; सा च तेषां श्रवणादिप्रयत्नलाभ्यया ब्रह्मविषययागन्तुकया विद्यया निवर्यते ; अतो न नित्यमविद्यानिवृत्तिप्रसङ्ग इत्युच्यते ; तदपि न, ब्रह्मव्यतिरिक्तजीवाभ्युपगमें द्वैतप्रसङ्गात् इत्यभिप्रायेणाह -न चेति । अस्तु तदैि ब्रमण्येवावद्योत्यत आह-ब्रह्मणीति । दूषणा- न्तराभिधित्सया पुनरुपन्यास इति द्रष्टव्यम् । अथैतद्दोषभयादविरोधस्तयो रिष्येत तत्राह- अविप्रतिषेध इति । विरुद्ध हि सती विद्य तां निवर्तयेत् नविरुद्धा, रस इव रूपमिति भावः । एवमग्रहणात्मिकामाविद्यां दूषयित्वा विपर्ययग्रहणात्मिकामिदानीं दूषयनि--यस्य त्विति । बझाखभावत्वेऽर्थान्तर त्वादद्वैतविघात इति भावः । दोषान्तरमाह--कस्य चेति ; निराश्रयवि पर्ययग्रहणसमवादिति भावः । न तावत्तद्विपर्ययग्रहणं ब्रह्मणोऽन्यस्य, तदभावात्; नापि ब्रह्मण एव, तस्य विद्यास्वरूपस्य विप्रतिषिद्धाविद्याश्रय त्वायोगादित्याह-- ब्रह्मण इति । 'अथाविरोधस्तत्र ह -- अविप्रतिषेध इति । S