32 कुत इत्याह-एवं हीति । ‘जीवेनात्मना’ इत्यात्मशब्देन बलवचिना सामाना धिकरण्यं श्रूयते ; न च तयोर्भदे घटपठयोरिव तत् स्यादिति शवः । तथा ‘‘ क्षेत्रज्ञ चापि मां विद्धि ने इत्यादिविरोधः, हैतपत्तिश्च तयोर्भदे स्यादित्यूहनीयम । सिद्धान्तवादी त्वाह--सत्यमिति ; न भिद्यत इत्यनु- वर्तते । कथं नाम भिद्यत इयाह कल्पनयेति ; अयथार्थवुडेरित्यर्थः । परमथैनभिन्न अपि ब्रह्मणो जीवाः कल्पनया मिथ्याबुद्धयो बिम्बप्रति बिम्बवच्चन्द्रवच्च ततो भिद्यन्ते; एवं च भेदमात्रमत्र काल्पनिकम्, न जीववस्त्वेवेत्युक्तं भवति । अत एव " तत्रवमसि“ इति भेद एव बाध्यते, न तु ‘तच्वमसि ’ इति जीव इति। पुनश्चेदयीत--कस्येति । कस्य कल्पना जीवपरयोपैविकेत्यर्थः । तत्र मतभेदेन परिहारद्वयं विवक्षुरेकं तावदाह अत्रेति । यद्यविद्या नाम वस्तु स्यात् ततो नासिद्ध जीववस्तुसंद्वयेऽ लम्, जीवं च विना न तसिद्धिः इतीतरेतराश्रयदोषः स्यात्; गायामात्रं तु सा; अतो न दोष इत्यर्थः । कुत इत्याह--न हीति । कुत इत्याह अनुपपक्षयैव होiत । अनुपपन्नविषयैव सा माया; उपपन्नार्थत्वे तु तस्या यथार्थत्वात् स्वरूपहानिरेव स्यात्; अतोऽनुपपन्नार्थत्वं तस्या दूषणम्, न तु दूषणमित्यर्थः । परिहारान्तरमाह --अन्ये त्विति । अहंकारादिकल्पनादत- स्तदवच्छिन्नस्तदुणसारो घटाकाश इव र जीवः , स ततस्तत्करपत्रे बीजाङ्करवदनादित्वं मन्तव्यम् । कारणiविद्या त्वनादिः । अनादिं त्वमेव स्वयूथ्योक्रया द्रढयति-तथा चेति । । अविद्या उपादानफा- रणं यस्य भेदप्रपञ्चस्य तद्वादिभिरित्यर्थः । तत्रानादित्वस्य फल- मांह-तत्रेति । तथा प्रसङ्गोक्तस्याप्रयोजनत्वस्य फलमोह-अप्रयोजनत्वा नेति ; भिद्यमानस्य प्रपञ्चस्य सृष्टौ किं प्रयोजनम् ? ११ इतिं यः Iः तस्यावकाशो न भवतीत्यर्थः । तत्र पर्यनुयोगं ताक वाइ--यदेक इति । यद्यपि सुष्टैः प्रागप्यनुग्राह्याः सबीजावस्था जीवाः सन्ति, अन्यथा पुनः सृष्टयभावप्रसङ्गात् ६ तयाप्युपाधिलये ब्रह्मणि लीना इवेति यथादृष्टपृथग्भूतानुग्राह्याभावउक्तः । इतश्च न परानुग्रहः प्रयाजेन मित्याह -दुःखोत्तरत्वाच्चेति । अनुग्रहाद्धि सुखिनमेव सृजेत्, न दुःखनम्
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३६७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति