पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रअसिद्धिव्याख्या विशेष तुल्ये को विशेषःयेन सा जगतो भेददर्शनमविद्यां बाधेतेत्याशङ्कय विद्याप्रत्यासन्नयेति । ऐकात्म्यश्रवणादिविद्यायां तत्सहभावेन नित्य प्रकाशरूपाय चाभिव्यञ्जकत्वेन श्रोतृश्रवणादि मेदाविद्या प्रत्यासन्नेति विशेषः । विद्यालक्षण इति ; नित्यप्रकाशलक्षण इत्यर्थः । तन्निवृत्ताविति ; कालुष्यानि वृतावेत्यर्थः अत्रेदानीमैकात्म्ये भेदस्यासत्यत्वात् श्रोत्रादिभेदाश्रयाः श्रवः णादयोऽप्यसत्याः; ततश्र कयमविद्यानिवृत्तिकार्यं कुर्युः ? इति प्रश्वोदयति । स्यादिति । मरुमरीचिकाजलादौ स्नानादिकार्यादर्शनादिति भावः देरसत्याच बक्षप्रतिपत्तिरसत्या स्यादित्याह--असत्याश्चेति । वर्तेरित्यध्या हृत्य प्रतिपतिपदेनानुषजनीयम् । सिद्धान्ती त्वसत्यादपि सत्यं कार्यं सत्या र्थप्रतिपत्तिश्च दृष्टेत्याह--उच्यत इति शाम्बरिकदर्शिता रुयादिमाया श्रीतेःव्याघ्रादिमाया च भयस्य निमित्तमिति विवेकः सत्यप्रतिपत्तेरित्यत्र निमित्तमित्यनुषजनीयम् इदमुदाहृतम् रेवा गवयादिरूपेणासत्यापि रेवखरूपेण तावत् सत्या श्रवणाद्युपायास्तु स्वरूपेणाप्यसत्य के इतेि विशेषं दर्शयन् परः पुनः प्रत्यवतिष्ठते--स्यादेतदिति । सिद्धमन्ती तु रेखास्वरूपेण सत्य अपि रेखागवयादये येन गवादिरूपेण सत्यगवयादि प्रतिपादकास्तदूपमसत्यमेव रेखारूपसत्यत्वं तु सत्यगवयादिप्रतिपत्तिकार्यानु पयोग्यकिञ्चित्करमेवेत्यविशेषमाह--उच्यते इति । यदि तु केनचिदुपेण सत्यत्वमन्तरेण न तुष्यति भवान् , तदप्यस्तीत्याह - अपि चेति । बलेवा विद्यया श्रवणादिरूपेण गृहीतं शुद्धब्रह्मप्राप्तावुपाय इत्यर्थः । रेखदयोऽपि खरूपेण सन्तोऽपि वर्णादिनाविद्यादिरूपेणैव वर्णादीनां गमकाः, न खरूपे णेति सर्वथा साम्यं प्रकटयति--यथेति अत्र परमतमुपन्यस्य दूषयति येऽपीति । लोकविरोधं प्रकटयति-तथा हीति । असत्याच्च सत्यार्यप्रीति पत्तावुदाहरणान्तरमाह--तथेति । बहिः प्रतिबिम्बलाञ्छितमादर्शमुपलभ्य गृहे बिम्बानुमानं न मृषेत्यर्थः । अत्रैवोदाहरणान्तरमाह--शब्दाच्चेति । नित्यत्वं सर्वदा सच्वम्ऽ तच्च दीर्घत्वादेर्घकालत्वादिलक्षणस्यासत्यत्वद्यो तनार्थसूक्तमिति मन्तव्यम् । एवमसत्यात्सत्यकार्यार्थप्रतिपत्तेर्भवेनोदाहरणानि बत्वा अधुनोभयत्राप्येकमुदाहरणमित्याह--तयेति । सत्यप्यहिदशे कस्य