42 बक्षसिडिव्याख्या दनिधनस्यात्मनो मुक्तिसंसरौ न संभवत इति क्षणिकपक्षोऽभ्युपगतः तं चाभ्युपगम्यापि चेदनादिनिधनायाः संततेरेव ताविष्टं, तत आत्मना कि मपराद्धम्, येन तस्य तौ नेष्टै? इत्यभिप्राथणाह- अप चेति । अनादि निंधनत्वमेव संततेरुपपादयति-तथा हीति । संततेनेतुंपादः संसारस्या- नावित्वात्; उत्पादे हि न सोऽनादिः स्यात् । अवस्तुत्याच संततेनत्पावः; न चोच्छेदः, अवस्तुत्वादेव; न वस्तुनो जन्मोच्छेदौ स्त इत्यर्थः इतश्च नोच्छेद इत्याह--अन्त्येति । । अनुपपत्तिमाह--स हीति । अपर आह- आरभत इति । योगिनोऽन्त्यक्षणस्य सर्वविषयत्वेन सर्वज्ञज्ञानार्थ क्रियाकारित्वान्नसवम्; अतो न तदसवात् पूर्वक्षणानामसवम्; अतो न संतानाभावः । न च तस्यानुच्छेदःसतनान्तरे सति स्खसंतत्युच्छेदादिति मावः । सिद्धान्ती तु पूर्वमपि हेतुफलभांबानुवृत्तावेक संततिरासीत्; इदानी मपि चेद्योगिनोऽन्यक्षणस्य सर्वज्ञज्ञानस्य च हेतुफलभावोऽस्ति, न तर्हि संतानान्तरत्वम्; न हि हेतुफलपरंपरामन्तरेणान्यदेकसंततेहेतुः; अत न संतत्युच्छेदः ; अतश्च न तच्छक्षणो मोक्ष इत्यभिप्रायेणाह--सतीति । परः पुनर्विशेषमाह--नेति । ततः किमित्याह--न चेति । योगिज्ञानसंततौ। चरम इत्यर्थः । यदि नोपादानं किं तर्हि स इत्याह—आळस्बनेति । प्रत्ययः कारणम् ; विषयरूपं कारणमित्यर्थः । उपादानं तु समनन्तरपूर्वभावि कारणमुच्यत इत्याह- समनन्तरेति । तत्र सर्वज्ञज्ञानेऽन्य एव स्वसंतान वर्ती पूर्वक्षणः, चरमस्तु सर्वज्ञज्ञानग्राह्यत्वात् विषयरूपं कारणमित्याह खेति । सिद्धान्ती तु न तावद्यदात्मकं कार्यं तदुपादानमेव, नापि यदा श्रयः क्षणानां परस्परमनात्मत्वादनाश्रयत्वाच्च ; यदि तुल्यजातीयमुपाः दानम्, प्राप्तं तार्ह योगिज्ञानं सर्वक्षज्ञानस्य ज्ञानमात्ररूपतया तुल्यत्वे नोपादानम् अतो न संतानान्तरत्वमित्यभिप्रायेणाहयदीति । यदि तु योगिसर्वज्ञज्ञानयोरसर्वसर्वविषयत्वेन विषयभेदावतुल्यजातीयत्वम्, अतो न योगिज्ञानमुपादानम्, अतो विलक्षणसर्वक्षज्ञानोस्पत्तौ योगिज्ञानसंतानोच्छेद इत्युच्यते ; अतो रूपज्ञांनप्रवाहे सति यदा रसज्ञानं भवति तदापि पूर्व संतानोच्केदादपवर्गाप्रसङ्गः स्यादित्याह--योऽपीति i अथ तत्र कथंचि-
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३७८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति