पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

56 ब्रह्मसिद्धिव्याख्या अत्रेदानीं शून्यवादी प्रत्यवतिष्ठते--यदीत । यदि परमार्थं तत् बलं ‘‘तत्सत्यम्’ इति श्रुतेः, अविद्याकीडिते च प्रपञ्च तच्छून्यतैव सत्या; अतः सैवस्तु ब्रदोत्यर्थः । एतमर्थं श्रुत्या द्रढयति--तथा चेति । तत्र सिद्धान्तमाह--तत्रेति । पूर्वोक्तासर्वत्वविरुद्धं सर्वत्वमपि भ्रमापनुत्तये विवृणोति एतदिति । ब्रह्म सर्वात्मकं न भवतयुक्तम् ; इदानीं तु सर्वे ब्रह्मत्मकम्, तेनात्मना सत् । न तु शून्यमित्यविरोध इत्यर्थः । तत्र हेतुमाह-नित्येति । सर्वशून्यत्वे निष्प्रपञ्चलक्षणस्य मोक्षस्यायनसिद्धत्वान्मोक्षार्थयोरुपदेशप्रख्यो तव नित्य रानर्थक्यं स्यादित्यर्थः । परमतमाशङ्कयति--नित्येति । यथा मुक्तस्यात्मनोऽविद्यानिबन्धनः संसारःतथा मम शून्यताया भविष्यतीत्यर्थः । उत्तरमाह--यदीति । कुत इत्याह—मुक्तावपीति । मुक्तावपि ग्रहणाभावस्य तुल्यत्वात् तद्वदव संसारेऽपि न किञ्चित् प्रकाशेत, तस्यावस्तुत्वादिति भावः । अथ विपर्ययग्रहणमविद्य, ततस्तस्य सत्ताभ्युपगमनं सर्वशून्य तेत्याह--अथेति । श्रुतिविरोधश्च स्यादित्याह-तेनेति। न स्यात्’ इत्यध्या हार्यम् । धृत्यैवायं पक्षः वयं निषिद्ध इत्याह- कथमिति । श्रुतिविरोधश्च खवष्टम्भेनोक्तः; न तु बौडस्य श्रुतिप्रामाण्यं सिद्धम् । सर्वशून्यतायां कार्यं । प्रपञ्चविभ्रमस्य निरधिष्ठानत्वेन निष्कारणता स्यात्; न चकारणं भवतीत्यभिप्रायेण श्रुत्यर्थमेवोपपादयति--भावो हीति । रज्वादिरधिष्ठानं । यथावरखरूपेणानवभासमानमध्यस्ताविद्यमानसर्गादिरूपं प्रकाशते; शून्ये ? च प्रकाशताम् त्वघिष्ठानाभाव छ कस्याध्यासोऽध्यारोपः तदभावे किं । प्रकाशते च प्रपञ्चः अस्य निष्कारणतैव स्यादित्यर्थः ; न हि निरधिष्ठान भ्रमो दृष्ट इति भावः । इतश्च न शून्यत्वमित्याह-विज्ञानमिति । न हि शून्यस्य विज्ञानानन्दरूपता समवति ; तस्मान्न शून्यरूपं ब्रह्म ; किं तु सर्वस्याविद्याकल्पितस्यात्मा निजस्वरूपमित्यर्थः । इदानीं क्रमागतमभयपदं व्याख्यातुं तावथैः भयाशङ्गमाह के चिदिति । सुरवस्य दुःखेनाविनाभावान्नस्ति काप्यवस्था दुःरवसंस्पर्शरहिता; अतो मुक्तावपि दुःखभयमस्तीति के चिन्मन्यते । कथमविनाभाव इत्याह फेवलेति ; दुःखरहितस्येत्यर्थः । अकैवल्यमुपपादयति--न हीति । ननु