ब्रह्मकाण्डः 57 सुखस्य दुःरवविनाभावो वाच्यः—‘न हि कश्चित् सुख्येव' इति ; ‘दुःख्येव इति तु प्रकृतानुपयोगि ; न हि दुःरवस्य सुखेनाविनाभावात्र प्रसृतः । उच्यते---सिद्धस्य सध्यत्वंनोपन्यासां दृष्टान्तार्थः । वाशब्दोऽयमिवार्थः ; तदुक्तम्—‘इववशब्दावुपमनाथ ” इति । तेनधमर्थः- यथा सुखं विना न कश्चित् दुःखेयेवापलभ्यते, तथा दुःखेनापि विना न कश्चित् सुखीति । इतश्च न । दुःवरहेतवस्थातत्याह --दुःरववत इति । अत्र दृष्टान्तमाह--तापवत इति । तेन मुक्त सुरवं । दुःरवसहचरितम्, सुखत्वात अस्समदादिसुखधदिति । तत्र सिद्धान्तमाह -- तत्रेति । अभयं विवृणोति- सर्वेति । हतुमाह--असकृदिति । श्रुतिमाह--अभयमिति । अनुमानमंत दागमविरुद्धमिति भाव । श्रुत्यर्थे युक्तःचा द्रढयति-तथा होति । भयमिति ; दुःरवभयमित्यर्थः । दुःखवत एव सुरवं सुखस्वेऽवतिष्ठत इत्यप्यु- क्तमयुक्तमित्याह--न चत । यदि दुःखाभावः सुखं स्यात् , ततः स्यादेवम् ; भावान्तरे तु सुरवे दुःखभावेऽपि तत् स्यादेवेत्यर्थः । अभयपदस्यार्थान्तरमाह--अपर इति । तत्र भयं तावदभयपदपर्यंद- स्यमाह--इहेति । तदुपपादयितुमनेकविधसंसारप्रदर्शनमुखेन संसारप्रकारभेदं तावदाह--इहेति । इह संसारे विज्ञानात्मानो जीवा ब्रह्मणः सकाशाद्वि भक्ता वा स्युः, अविभक्ता वा । यदा च विभक्तास्तदापि द्वयी गतिः— आत्मनः सकाशात् ब्रह्मणैव वा विभज्येरन् ; किमर्थमित्यत आह भोगार्थमित्यादि ; यद्वा न शोगाद्यर्थम् - किं तु स्वभावात् ; स्वभावोऽयं बक्षणो यजीवान् विभजतोत्येिका गतिः । गत्यन्तरमाह--अविद्योति , अवि. द्यानिबन्धनो वा बिम्बप्रतिबिम्बवद्विभागः । पक्षान्तरमाह--विज्ञानात्मान इति । तत्रापि गतिद्वयमाह--तेषामिति । देहादिकमेणः ‘अहं करोमि इत्यात्मन्यध्यासः कर्माविद्या । तत्रानन्तरपक्षे तावदावृत्तिभयप्रसक्तमाह तत्रेति । द्रष्टरात्मनो दृश्यस्य च विषयाकारपरिणतायास्त्रिगुणात्मिकायाः प्रकृतेः या द्रष्टुदृश्ययोग्यता तया दृश्यान् पइयन् विज्ञानात्मा जीवो बध्यत इति यद्युच्यते, ततस्तयोर्नित्ययोग्यताया नित्यत्वेनानपायात पुनरावृतिभयमस्त्येवे .
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३९३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति