पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

60 बलासिद्दिव्याख्या २० ४ परा प्रकृष्टेत्यर्थः । किमिति नास्तीत्याह--न तावदिति । ननु कर्मणामन न्तत्वात् स्वफलैकविनाश्यत्वच छत मोगानां विनाशासंभवात् किमिति कर्म | निमिचः संसरो न स्यादित्यत । आह---विद्ययते । न तावत्फलेनैव कर्मणां नश इति नियमः, प्रायश्चित्तेनापि तन्नाशात्; नाप्यानन्यादनाशः विद्याया आनन्त्यदग्धृत्वादिति भावः । न च प्रायश्चित्तं नैमित्तिकमात्रम् एतदपि भोगेनैव क्षीयत इति वाच्यम्; " द्वादशाब्देन गोघाती तस्मा स्पापात्प्रमुच्यते इति स्मृतिविरोधात १ नन्वागमतिद्वत्वादस्तु प्रायश्चित्तस्य पापक्षयहेतुत्वम्, विद्यायास्तु कथमनन्तकर्मक्षयहेतुत्वमित्याशङ्कयात्राप्यागम माह--उक्तं हीति । प्रायश्चित्तवद्विद्यायाः एवमदृष्टशक्त्या सर्वकर्मक्षय हेतुत्वं परमतेनोक्व अधुना स्वमतेन दृष्टशक्रया तदाह-अथ वेति । अविद्याहेतुकः कर्तृकर्मादिविभागः, तस्य विद्यया निवृत्तौ कुतस्तस्य पुन रावृत्तभयं स्यादिति भावः । । अविद्यानिबन्धनेऽपि बन्धे मुक्तस्य पुनः संसारभयं नास्तीत्याह--नापीति ; पुनः संसार इति पूर्वेणान्वयः । कुत इत्याह--तदिति ; ‘तत् ’ इत्यविद्यां परामृशति । किमिति तत्त्रवृचिहेतु नास्तीत्याह--अनादिरिति । कस्मात्पुनरनादिहेतुं नापेक्षत इत्याह प्रागिति । यदि नामाविद्यानादित्वादहेतुक, ततः किमित्याह-विद्ययेति । पर्वा तावदनादिरविद्या मुक्तस्य विद्यया हता ; इतरा च निहंतुकवान हेतु मन्तरेणापतिमईतीत्यर्थः । ननु सुषुप्तवदुच्छिन्नपि पुनरुरपरस्यत इत्यत प्रपञ्चमना . विस्तारमात्रमविधया नि भाह–सुषुते त्विति । सुषु वृत्तम्; खयं तु सा आत्मतवाग्रहणात्मना विक्षेपसंस्काराश्मना चावस्थितैव; अतः प्रबोधे पुनः प्रपञ्चमादर्शयति; मुक्तस्य तु सर्वथोच्छिन्नेति विशेषः । यदि तु सुषुतेऽपि सर्वथोच्छिन्ना स्यात्, न मोक्षात् सुषुप्तं बिभज्येते त्यर्थः । सुषुप्ते चेदविद्य नोच्छिन्न, कथं तर्हि तत्राहरहरिमाः प्रज प्रक्षलोकम्’ इत्यादौ ब्रह्मप्राप्स्यभिधानामित्यत आह-विक्षेप इति । यद्यपि तत्र कारणाविद्यास्ति, तथापि कायविद्यानिवृत्तिसामान्याद् गौणं ब्रह्मप्राप्यभि- धानमिति भावः । स्वातन्त्र्ययोग्यतापक्षयोस्तु पुनरावृयाशङ्का तयोरनभ्युप गमेनैव प्रयुक्तेति पुनर्न प्रयुक्ता । प्रकृतमुपसंहरति--तस्मादिति । K A