64 वक्षसिद्धिव्याख्या 'निघिमान् ' इति शब्दस्य ‘गृहाण’ इत्यत्र सामर्थम् । यदि त्वभिसन्धान मात्रेण शब्दार्थत्वं स्यात्, तदा निषिसध्यमुपभोगाद्यपि तस्य वसुरभिसं. हितामिति तदपि शब्दार्थः स्यात् । किं च यदा ‘घटे प्रवर्तिष्ये, सर्पति वर्तिष्ये’ इति चभिसन्धाय तद्वस्तु प्रत्यक्षादिभिजिज्ञास्यते, तदाभिसंहिते अपि ते न शब्दार्थः । यदि वा अभिसन्धानमात्रेण निधिवाक्ये प्रवात्ति- रर्थः स्यात् , ततः शब्दशक्तेरेकरूपत्वात् सर्वेषां प्रवृत्तिबुद्धिरेव स्यात् ? नोपेक्षाबुद्धिः; अति च सा कस्यचित् ; अतो न प्रवृत्तिः शब्दार्थः । तेन सिद्धार्थनिष्टमेव तद्वाक्यामिति न लोके सर्वे वाक्यं कार्यनिष्ठम् । यदप्युक्तम्-प्रवर्तकवाक्याडि पिकानयनादिव्यवहारः, ततो लोके वाच्यवाचकसंबन्धावगमःतेन प्रवृत्तिनिष्ठतैव सर्वशब्दानामिति ; तदपि न, वर्तमानापदेशादपि संबन्धावगमदर्शनात् ; तथा हि--‘देवदत्तः काष्ठेरोदनं पचति’ इत्युक्ते व्युत्पन्नौदनादिपदार्थस्तथा व्युत्पन्नतृतीयार्थश्चाव्युत्पन्नकाष्ठपदार्थों यत्पाके करणं पश्यति तत्काष्ठपदार्थ इति व्युत्पद्यते । तथा हर्षादिप्रयो- जनभ्यः पुत्रस्ते ‘जातःइत्यादिभ्यस्तत्वाख्ययकवाक्येभ्यः सिद्धयैश्यो- sपि प्रवर्तकवाक्यादिव हर्षादिनिमित्तेषु पुत्रादिषु भवति पुत्रादिशब्दवा च्यत्वे व्युत्पत्तिः । यथैव हि पिकानयनादिव्यवहारविषयं प्रवृत्तिविशेषे दृष्ट्वा तदन्यथानुपपच्या प्रवृत्ति विशेषज्ञानं तन्निमित्तनियोगज्ञानं वा बालेन प्रेष्यस्यानुमीयते- शब्दानन्तरभावात् , कारणान्तरस्य चादर्शनात्, दृष्टत्या गेनाढष्टकल्पनानुपपत्तेः, शब्दस्यैव तत्र ज्ञाने सामथ्र्यं कल्प्यत इति कार्य वाक्यार्थव्युत्पत्तिः, तथा पित्रादेर्मुरवप्रसादादिना लिहून हर्षाद्युपलभ्याकारणक कार्यानुपपत्या हर्षादिनिमित्तज्ञानमनुमीयते ; तच्च शब्दानन्तर्यात् , अन्यस्य हेतारदर्शनात् , शब्देन कृतमिति शब्दस्य तत्र हर्षादिनिमित्तज्ञाने जनन सामथ्र्यकल्पना भवति । तदेवं ‘हर्षनिमित्तं किंचिदस्यानेन शब्देनोक्तम् । इति सामान्यतोऽवगतं, अथ कि तद्वर्षनिमित्तमिति विशेषवच्छाय खसन्तानज्ञातहर्षनिमित्तमावस्याव्युत्पन्नपुत्रशब्दवाच्यत्वत्य व्युत्पन्नशब्दान्त- रस्य पुत्रजन्मनस्तस्य वाक्योपतस्यैव पितुः संबन्धितयावगतस्वात्, अन्यस्य च हर्षनिमित्तस्यानुपलब्धेरभावात्, दृष्टहानेनादृष्टकर्पनानुपपत्तेश्च पुत्र- जन्मन्येवेदं वाक्यमानेन प्रयुक्तम् ; अनेन च पित्रा तदेवास्माद्वाक्यात् प्रती-
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४००
एतत् पृष्ठम् अपरिष्कृतम् अस्ति