पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अकाण्डः 8 नियोगेनानपेक्षणाम् , अपेक्षानिबन्धनस्वाच्चास्य ; तस्मान्नियोगान्वयात्पूर्वः पदानामन्वय इति । नियोगान्वयनिरपेक्ष एव चेत्, विनापि तेनोपनिषत्सु सिद्धेऽप्यर्थेऽन्वयः सिद्व इति । ननु यदि नाम नियोगान्वयपूर्वः पदार्थान्वयो न भवति, तथापि नियोगकाङ्क्षनिबन्धनोऽसौ; स हि बिशिष्टविषयसिद्धयेः पदार्थानामन्योन्यान्वयमाकाङ्क्षते ; अन्यथा कार्यान्वयशून्यः पदार्थान्वयोऽपि व्यथेः स्यात् , एकवक यता च न स्यात् । एवं चेदुपनिषत्सु न नियोगेन विनान्वयसिद्धि रित्याह-न च नियोगाकाङ्क्षानिबन्धनः पदार्थानां परस्परसंसर्ग इतीममर्थं वक्ष्यति नियोगकाण्डे। यच्चोक्तम्--ब्रह्मणः प्रमाणान्तरासिड संबन्धाग्रहदपदार्थत्वे सत्यवाक्यत्वमेति, तत्रोच्यते- प्रमाणान्तरेणानधगतमपं ब्रह्म तत एव ब्रह्मन्तर्याम्यादिवशब्देनानधिगतवाच्यत्वसंबन्घमपि शक्यम् अस्थूलमनण्वह्खम् ” इत्यादिशब्देन निरूपयितुम् । कथम् ? उच्यते ‘स्थूलोऽहम्’ ‘अणुरहम् ’ ‘हूखेऽहम्’ इत्यविद्याध्यस्तस्थूलादिविशेषप्रति- षेधद्वारेण । न च येन शब्देन तथा प्रतिपाद्यते तस्याष्यसंगतिदोषस्तुल्य इति वाच्यम् , स्थूलादिविशेषशब्दानां नवश्च खेन नाथेन विदितसंबन्धत्वात् । न च ब्रह्मान्तर्याम्यादिशब्दवदसंगतिदोषोऽस्ति । तेन वसेद्रय जीवस्य स्थूलादिविशेषनिषेधमुखेनास्थूलादिशब्दानामस्ति विगतनिःशेषदोषतवाभि- घानशक्तिरिति भावः । तथा च श्रुत्यापि ‘अस्थूलमनण्वङ्गत्वमदीर्घमलोहितम् इत्यद्यया’ इस्थमेव स्थूलादिविशेषनिषेधमुखेनैव तद्र सर्वविशेषातिगं सर्वान् स्थूलत्वादिविशेषानतिकान्तमुपदिश्यते ; नास्मामिः खोरप्रेक्षयेदमुक्तमिति भावः । उक्तेऽर्थे श्लोकार्ध योजयति--एतत्कथयतीति । एतच्च चतुर्थं काण्डे वक्ष्यत इतीह न प्रपञ्चितम् । इतीति समाप्तौ । अश्यैव श्लोकस्यान्योऽर्थ उच्यते-यदप्युक्तं पूर्वपक्षे प्रत्यस्तामितसकल विशेषं ब्रह्म प्रतिपत्तेरेवाविषय इति, तत्रोच्यते –विशेषनिवृथैव तन्निर्विशेषं वस्तु शब्देन प्रतिपद्यते । इदमुक्तं स्यात्--द्विविधं हि प्रतिपादनं दृष्टम् एकं विषमुखेन, यथा ‘अयं कुण्डली, स कठकी’ इति एकं च विशेषनिषेधमुखेन, यथा ‘नाङ्गदी न मकुट, स न कटकी’ इति । ततश्च यदि नाम विर्विशेषं तत्वम् ‘इत्यंभूतम् ’ इति विशेषमुखेन वक्तुं न शक्यते, तथाप्यविद्याध्यस्तविशेषनिषेधमुखेन प्रतिपादयिष्यते प्रतिपत्स्यते चेति । अझ