! 70 बह्मसद्व्यख्या नेतरस्य ; तेन स एवाधिकारी, नेतर इति भावः । कुतः पुनरितरस्यात्म ज्ञानमशक्यमित्यत आह--न होiत । विषयै रमणीयतयाभमुवमाकृष्यमाण विषयस्योपाये प्रवत्तेः तत्र कृतं चेतो येन तंप्रसक्तमना यः, स ५ यस्मान्न शक्त्यात्मनि विषये समाधनं कर्तुम् , न वसमाहितः शक्नोत्या. मनं वेत्तुम् , अतोऽसमर्थत्वान्नासावधिकारीति भावः । यः पुना रागनिबन्ध- नाभ्यो नैसर्गिकीभ्यः प्रवृत्तिभ्य उपरतः शान्तो दान्तोऽत एव नियतमा नसो निरस्तबाह्यान्तरविक्षेपः स शक्तस्यात्मनि समाधातुमित्यास्मज्ञानसमर्थवा दात्मदर्शनेऽधिक्रियते । तस्मान्नैसर्गक्रप्रवृत्तिनिषेधपरवे कर्मविधयो दृष्टेनैव ज्ञानाधिकारोपयोगिनो भवन्तीति तत्परा एव ते युक्ता इति केचित्। मन्यन्ते । ९ ३ अन्ये त्वन्यथा आत्मज्ञानाधिकारोपयोगितां कर्मविधीनां मन्यन्ते ; कथं तत् ? उच्यते - अनवाप्तकामःकम्यन्त इति कामाः स्वगोदयः अनवाप्त कामा येन सोऽनवाप्तकामः; कामोपहतमनाःकामना कामः विषयसुरव- भिलाषःतेनोपहतमखस्थीकृतं मनो यस्य स परमहैतदर्शनयोग्यो भवतीति न न तत्राधिक्रियते ; न रवरवयोग्योऽधिकारं प्रतिपद्यते । यः पुनराधनदारभ्य सहस्रसंवत्सराख्यसत्रपर्यन्तैः कर्मभिरुपनीतशेषकाम्यैरवाप्तशषकाम्यतया कृत कामनिबर्हणःकृतः कामस्य । निबर्हणं विनाशो विषयसुखाभिलाषस्य यस्य स प्राजापत्यात् प्रजापतेरिदं प्राजापत्यं पदं ततः परमवाप्तशेष काम्यतया अनुपहतमनाः सन्नद्वैतमात्मानं प्रतिपद्यत । एवं कामनिबर्हण द्वारेण कर्मविधीनामात्मज्ञानधिकारोपयोग इत्यन्ये मन्यन्ते । एवं चैष सर्वत्रान्नये वाक्यार्थे ।तुः -- सहस्रसंवत्सरान्तं कर्मजातमारमनि जिज्ञासुना कार्यमिति । उभयोरपि चानन्तरयोः कर्मविधीनामारमज्ञानाधिकारोपयोगित्वः पक्षयोः कृत्न आम्नाय आत्मज्ञानैककार्यपर्यवसायी, आत्मज्ञाने एकस्मिन कार्थे पर्यवस्यति समाप्यते ; तत्पर इति यावत् । न भावान्तरकार्यपर्यवः सायीत्येकग्रहणम् । तत्राद्य पक्षे विवक्षितावान्तरनियोगफलानां कर्मनियो गानामात्मज्ञानपरमनियोगावयःद्वितीये त्वन्तरकर्मनियोगफलद्वारेणेति विवेक ।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४०६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति