बढझण्डः प्राप्तोऽय विषयो रागादिना येषां ते तथोक्ताः , कर्मविघयोऽन्यपदार्थः । न ह्यग्निहोत्रादौ रागादिभिः प्रवृत्तिः प्राप्तेति भावः । कस्मात्पुनरत्यन्तम् प्राप्तार्था अपि कर्मविघयो नियामकाः परिसंख्यायका वा न स्युरित्यत्र हेतुमाह--प्राप्तायै हीति । रागादिःिः प्राप्तो विषयो यस्य विधेः स प्राप्तप्रापकत्वे वैषयदन्यनिवृत्तिफलो विज्ञायते; कर्मविधयस्त्वत्यन्तमप्राप्तं प्रापयन्त एत्र सप्रयोजना इति न वैयर्यदोषादन्यनिवृत्चिप्रयोजना विज्ञायन्त इत्यर्थः । तदुक्तम् विधिरत्यन्तमनाते नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्त परिसंख्येति कीर्यते” ॥ इति । यद्यपि नाम कर्मविघयो न रागादिजप्रवृत्तिनिवृत्तिफलाः , तथापि रागा- दिजघेघप्रवृत्योस्तुल्यकार्यत्वलक्षणेन विरोधेन वैधप्रवृत्या रागादिजप्रवृत्ते र्निवृतिर्भविष्यति; तथा हि--यदेव रागादिजप्रवृत्तेः सुखम् , तज्यो तिष्ठेमादिवेघप्रवृत्तेरपि ; तब वैधप्रवृत्तित एव सिद्धमिति कृतकार्यत्वा ब्रागादिजप्रवृत्तेर्निवृत्तिरिति - यद्युच्येत तदपि नेत्याह-न चेति । कुत इत्याह-अनियतेति । अनियतकालं फलं यासामिति विग्रहः । अनियत काळफळा नैयोगिक्यः प्रवृत्तय इह वामुत्र वा फलप्रदाः; अतोऽदृष्टार्थ स्ताः रागादिप्रयुक्तास्तु वामाविक्यो रागादेः पुरुषखमावाबाताः प्रवृ- तयो दृष्टार्थाः । दृष्टार्थखेनैहिकफलवं लक्षयन्ति; ऐहिकफला इत्यर्थः ततश्र भिन्नकालकर्यत्वात् तयोरविरोध इति न नैयोगिक्या प्रवृच्या रागादिजप्रवृत्तेर्वोचः । यद्वा अभ्यर्हितत्वाद् इष्टार्थयैवादृष्टार्याया बाघः स्या दिति भावः । ननु स्वर्गादिफलमामुष्मिकमेव; तत्कथमविशेषेणोक्तम्- अनियतकालफला इति ! विधिशक्तिमपेक्ष्येदमुक्तम्, न वस्तुनः शक्तिम्; न हि विचिरिह वा असुत्र वा वर्ग इत्याहकालविशेषानिर्देशात् ; वस्तु शक्तिस्वेषा–यदिह स्वर्गे भोक्तुं न शक्यत इत्यमुत्रैव स्यादिति । यद्वा उपलक्षणमनियतकालत्वम् , आमुष्मिकफलत्वमपि द्रष्टव्यम् ? तत्रापि काल- मेदादविरोष एव । विपरीतो वा बाधः । किं च यदि दृष्टादृष्टार्थप्रवृ च्योस्तुल्यकार्यत्वे विरोधः स्यात्, ततः सेवासाऽहण्योरपि स्यात्; न चैव
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४१३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति