पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

82 बह्मसिद्धिव्याख्या इदानीमुद्देशक्रमप्राप्ताननन्तरपक्षाननादृत्य बहुवक्तव्यत्वादात्मज्ञानस्य कर्तृसंस्कारतया कर्माङ्गत्वपक्षे षयितुमनुभाषयति--येऽपीति । पूर्वं कर्म ज्ञानाङ्गमित्युक्तम् , अधुना तु ज्ञानं कर्माङ्गमितिं विपर्ययार्थः। तदूषयति - तैरिति । तैरपि ज्ञानस्य कर्मभिः संबन्धे श्रुत्यादीनामन्यतमं प्रमाणं वाच्यम्, तच्च दुर्वचमिति भावः । ननु त्रीहिप्रोक्षणादिसंस्कारवत् - कर्तु संस्कारतयात्मज्ञानं कर्मभिः संबध्यत इत्याशङ्क्य तदैषम्यमाह--न ताव दिति । यथा तत्र कर्मभिः संबन्धे प्रमाणमस्ति न तथात्रेति शेषः । तत्र प्रोक्षणादौ तावत् कर्मसंबन्धे प्रमाणमाह--तत्र हीति । तत्र हि त्रीहिवरूपस्य कर्मण्यनुपयोक्ष्यमाणस्यासाधनीभूतस्य द प्रोक्षणेन न कश्चिदर्थ इति त्रीहिवरूपप्रोक्षणस्यानर्थक्यादन्यत्र साधनीभूतं त्री त्री हिशब्दो लक्षयति; तत्रापि प्रकरणगृहीतस्य प्रोक्षणस्याप्रकृतकर्मा पूर्वसाधनसंबन्धे प्रकरणबाधः स्यादिति प्रकरणात् प्रकृतकर्मपूर्वसाध- नामेति गम्यते ; तदेवं प्रकृतकमपूर्वसाधनत्वलक्षणद्वारेण त्रीहि शब्दः प्रोक्षणस्य प्रकृतकर्मापूर्वसंबन्धं बोधयतीत्यर्थः । ननु पर्णमयत्व वदात्मज्ञानमसत्यपि प्रकरणे कर्मणा किमिति न संबध्यत इत्याह नापीति । यथा –“ यस्य पर्णमयी जुहूर्भवाति ” इत्यत्र कर्मसंबन्धः, तथा त्रेति वाक्यशेषः । कुत इत्यह---तत्रापीति । तत्रापि जुह्वादिद्रव्यमयमि चरितकर्मसंबन्धं न व्यभिचरितः कर्मसंबन्धो यस्य । तत् तथोक्कम् ; कर्म समवेतमेव हि जुळादिद्रव्यम्, नान्यत्र तत्; अत एवासत्यपि प्रकरणे कर्मपस्थापयतीत्यर्थः । ननु यदि नामैवं तथापि पर्णमयीत्वस्य केन प्रमाणेन कर्मसंबन्ध इत्यत आह--तत्रेति । तत्र तस्मिन् सति, तत्र वा पर्णमयीवाक्ये वाक्येनैव कर्मसंबन्धः ; पर्णमयीवस्येति शेषः । तद्धि वाक्यं क्रत्वन्यभिचरितसंबन्धजुह्नुवादेन पर्णमयत्वं विदधत् क्रतुमनुप्रवेशयतीति भावः । एवं दृष्टान्तद्वये कर्मसंबन्धहेतुमुक्त्वा दाट्ठन्तिके तदसंभवमाह- आत्मज्ञानं त्विति । नात्मज्ञानं प्रकरणे . श्रुतम, कर्मकाण्डबहिर्भावाज्ज्ञान काण्डस्य ; नाप्यव्यभिचरितक्रतुसंबन्धम्, लौकिकेऽपि कर्मण्यात्मनः कर्तु त्वस्येष्टत्वादिति भावः । तेन प्रमाणाभावादात्मज्ञानस्य कर्तृसंस्कारतया कर्म संबन्धो वक्तुं न शक्यत इत्याह--तेनेति । आत्मज्ञानस्य कर्मसंबन्धाभावे