ब्रह्मकाण्डः 87 इत्याशङ्क्याह--प्रविलीयत एवेति । अद्वैतप्रतिपत्तौ सत्यां प्रविलीयत एव सर्वप्रमाणादिविभागःअतो नानिमक्षप्रसङ्ग इति भावः । यद्यद्वैतज्ञाने सति प्रमाणादिदैतं प्रविलीयते, प्राप्तं तर्हि तयोश्छायातपादिवद्विरोधः अनु पायत्वं च प्रमणादिविभागस्य ; न हि प्रविलीयमानस्य क्वचिदुपायत्वं दृष्टम् ; अतो नाविरोधःनाप्युपायत्वं प्रमाणादिविभागस्येत्याशङ्क्याह- न चेति । तत्राविरोधे तावडेतुमाह- उपायस्येति । न प्रविलाप्यप्रविलाप कस्त्वमात्रेण विरोधः, किंतु काल मेदेन च, तादृशयोरपि छायातपयोर्भिन्न कालयोरविरोधात् । इह च तयोः कालभेदः , तस्मादविरोध इति भावः । उपायते हेतुमाह---तद चेति । जाते अद्वैतज्ञाने प्रमाणादिदैतं प्रविली यते, न पूर्वमेव ; पूर्व च तस्योपायत्वम्, तद च तदप्रविलीनमेवेत्यर्थः । इतश्च नानुपायत्वमित्याह- भेद इति । अद्वैतज्ञानस्य तावत् कार्यत्वादवश्यं कारणेन भाव्यम् ; न चाद्वैतमेव मम तस्य कारणम् , तस्याकारकत्वात्, नित्यं च कार्योत्पत्तिप्रसङ्गात् ; अतः पारिशेष्यात् प्रमाणादिदैतेन भाव्यमिति भावः । यद्वा भेद एवान्योऽपीति सामान्याद्यभेदप्रतिपत्तावुपायो वृष्टः, तद्वत् प्रमाणादिभेदोऽपि भविष्यतीति भावः । एवं परमतमाशङ्कय तदे वोपजीव्य कर्मज्ञानयोरसंबन्धहेतुं परोक्तं विरोधं परिहरति-नेति । यदि प्रमाणादिद्वैतं तूपायत्वाद्भिन्नकालमिति न तेनादैतज्ञानस्य विरोधःएवं तहैिं कर्मभिरप्युपायत्वादेव भिन्नकालैर्न तस्य विरोधः; ततश्च न तस्य तैरसंबन्ध इति भावः । पर इदानीं कर्मणामनुपयोगेनोपायत्वमेवाक्षिपन् संबन्धमाक्षिक पति--स्यादिति । भवेदेतत्कर्मणामुपायत्वं तेन च संबन्धः, यदि तेषा मुपयोगः स्यात् ; स एव तु ब्रह्मणो नित्यत्वेनासध्यत्वान्न विद्यते । न च कार्यसिद्धावनुपयुक्तस्योपायत्वमस्ति ; न चानुपायेऽपेक्षा ; न चानवेक्षितस्य संबन्ध इति भावः । कर्मणामनुपयोगे श्रुतिमुदाहरति--भूयत इति । अस्यार्थः- अकृतोऽकार्यों मोक्षे । ब्रह्मस्वरूपं छतेन कर्मणा नास्ति न भवति न सिध्यतीति । ननु मा भवतु ब्रह्मण्यसध्ये कमेणामुपयोगः, तज्ज्ञा- नोत्पत्तौ तु प्रमाण दिविभागस्येव केन वार्यत । इत्याशङ्कयाह-न चेति । हेतुमाह-ज्ञानस्येति । ज्ञानं नाम प्रमाणाधीनम, न कर्माधीनम . अन्यथ
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४२३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति