मकाण्ड 89 विद्योपाद एव विपर्ययनिवृतिः ; अतस्तन्निवृत्तिर्विद्यायाः पृथक् साध्या; अतश्च तत्र कर्मणां सहकारित्वेनोपयोगोऽस्तीति भावः । किमिति पुनरः ग्रहणनिवृत्तिवत् विपर्ययज्ञाननिवृत्तिरपि विद्योत्पाद एव न स्यादित्याशङ्कय वैषम्यमाह-न वल्विति । अग्रहणं हि प्रागभावःतस्य भावोत्पाद एव निवृत्तिर्युज्यते ; विपर्ययज्ञानं तु विद्यातो भावान्तरम् ; | न च भावान्तरं विद्या विपर्ययज्ञानस्य भावान्तरस्य निवृत्तिरित्यर्थः । कुत इत्याह हीति । यदि परस्पराभावा भावा भवेयुः, ततो मावान्तरं भावान्तरस्याभावः स्यात् ; न त्वेवमस्ति ; ततश्च मावाद्भवान्तराभावः पृथक् साध्योऽस्ति ; तत्र च कर्मणामनुप्रवेशो घटत इति भावः । कुत इत्याह--अभावत्वेति । अभावस्वभावत्वे हि भावानां भावस्वभावत्वाभावादभाव्यः स्यात् ; ततश्च सर्वशून्यता स्यादिति भावः । चोदक एवाशङ्कयाति-यदीति । न खलु तत्सर्वं गृहतो विपर्ययज्ञानं भवति ; तेन तवाग्रहणं विपर्ययज्ञानस्य निमि तम् ; अतस्तवज्ञानात्मिकया विद्यया निवृत्ते निमित्तनिवृस्यैव विपर्ययज्ञानं स्वयमेव निवर्तिष्यते । अतो मावान्तरत्वेऽपि न तन्निवृत्तिर्विद्यया पृथक् साध्या, यत्र कर्मणामनुप्रवेशः स्यादिति भावः । एवमाशङ्कय दूषयति- तन्चेति । स्यादेवम् , यद्यग्रहणं कस्य चिन्निमित्तं स्यात् ; न त्वेतदस्ति ? अमावो ह्यप्रहः, तन्न कस्य चिन्निमित्तम् अतो न विपर्ययस्यापीत्यर्थः । कुत इत्याह-मूच्छुदीति । यद्यग्रहणं विपर्ययनिमित्तं स्यात् , ततो मृच्छदिषु तदस्तीतिं विपर्ययज्ञानं प्रसज्येत ; न चैवमस्तीत्यर्थः । यद्वग्रह- णमनिमित्तं विपर्ययस्य, किं तर्हि तस्य निमित्तमिति पृच्छति--किं तर्हति । उत्तरमाह--अनादिति । अनादिरप्रयोजना या अनिर्वचनीयाविद्या, सा विप ”याविद्याया निमित्तमित्युक्तम् ‘अमृतमजम्' इत्येतव्याख्यानावसर इत्यर्थः । न च तस्यामपि को हेतुरिति वक्तव्यम् , अनादित्वादित्याह--तत्र चेति । यह तत्र च तस्यामनाद्यविद्यायां सत्यां विपर्ययस्य को हेतुरिति य: पर्यनुयोगः स निरवकाश, इत्यर्थः । यदि त्वनाद्यविद्यतिरिक्तं विपर्ययस्य निमित्तमिच्छसि, तदपि शक्यं दर्शयितुमित्याह--विपर्यासेति । प्रपञ्च प्राहिणो विपर्ययज्ञानस्य प्रपञ्चसंस्कारो निमित्तम् । तस्य तहैिं किं निमित्त.
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४२५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति