पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

94 समासादव्याख्या स्तर्हि तत्रेतुरेव प्रमेयस्य समीपानयनं प्रमातुर्वा तत्समीपगमनमपश्यताम् , न तु प्रमाणम् ; तद्धि प्रमितयेऽपेक्ष्यते ; सा च पूर्वप्रमाणादेव सिद्धेत्यर्थः । प्रकृते चत्मनि प्रमेये नैव संनिसृष्टासंनिकृष्टलक्षणो विशेषोऽस्ति, येन संनिकर्षार्थं प्रत्यक्षमपेक्ष्येत ; आत्मनो नित्यसंनिकृष्टतमवादित्यभिप्रायेणाह-- प्रकृते चेति । अथ मतम् –सामान्यविषयाः शब्दादयः, विशेषविषयं प्रस्यक्षम् ; तेन 'शब्दात् सामान्यतः अमितमपि विशेषतः प्रमातुं प्रत्यक्षमपे- क्ष्यत इति । तदयुक्तम्; एवं तर्हि शब्देन हेतुनानधिगतमेव विशेषरूपं प्रत्यक्षविषयः स्यात् ; ततश्व सिद्धो नः पक्षः; न सिडस्य पुनः सिद्धघ पेक्षयां हेतुरस्ति; तदेतत्सर्वं साशङ्कमाह- सामान्येति । इतर इदानीं तथैव प्रत्यवातेष्टते-बाढमिति । अस्माकमप्यभिमतमेतत्, यच्छब्देनानव- गतविषयं प्रत्यक्षमिति; अतस्तदर्थे कर्मेपासनाधपेक्षा घटिष्यत इत्याशयः। उक्तमिति । तस्य च बलं गोचरः, न शब्दस्य ’ इत्यत्रोक्तमित्यर्थः । तदेतत् दूषयति --यदीति । यदि शब्देन हेतुना विशेषतोऽनधिगतं बल, कथं तर्हि तस्मिन् ब्रह्मणि विशेषरूपेणोपासना प्रवर्तताम् ? न ह्यज्ञातमुपासितुं शक्यमिति भावः । न च शब्दाधिगतं सामान्यरूपमुपासिष्यते, विशेषरूपं चापरोधी भविष्यतीति वाच्यम्; अन्यस्मिन्नुपासितेऽन्यस्य साक्षात्करणासंभवा- दित्याह-न चेति । किं च सामान्यमात्रविषयाः शब्दा इत्यप्यतिद्वम्, अपहतपाप्मानन्दादिविशेषस्यापि ततः प्रततेःयदि त्वपहतपाप्मानन्दादि पुरुषार्थरूपं शब्दान्न गम्येत, ततःफस्य रूपस्य साक्षात्करणाय “ यज्ञेन दानेन" इति श्रुत्या यज्ञादिविधानं स्यात् ? अपितु न स्यादेवेत्यभिप्रायेणाह कस्य चेति । यथा शब्दाद्विशेषरूपे ज्ञाते यज्ञादिविधानं घटते, यथा चाज्ञाते न घठते तदुभयमाह-शब्देति । अयमर्थः--यदि शब्देनानन्दादिरूपवत्र स्वभाव आत्मा दर्शितः स्यात् , तत आनन्दादिपुरुषार्थावाप्तये साघना- पेक्षायां यज्ञादीनां विधानमवकल्पते; शब्दशस्वानन्दादौ पुरुषार्थरूपेऽन मिगते, तद्विपरीतेऽपुरुषार्थरूपे चात्मन्यधिगते यज्ञादिविधिरसदर्थोऽविद्य मानाय व्यर्थः स्यात; तस्मादानन्दादिविशेषरूपमपि शब्दादवगम्यत इति भावः । शब्देनोपदर्शितं निरतिशयानन्दापहतपाप्मादिरूपं यस्य ब्रह्मणः तत्वभावस्यामन इत्यर्थः। तत्र निरतिशयानन्द इष्टप्राप्तिरूपपुरुषार्थ उकः ।