पक्षकाण्ड: १6 अपहतपाप्मेति चानिष्टनिवृत्तिरूप इति विवेकः । अविदितं पुरुषार्थरूपं यस्येत्यास्मान्यपदार्थः । उपसंहरति--तस्गादिति । अपहतपाप्मादिगुणक- नसखभावं आस्मनि निविचिकित्सात् निःसंशयात् शब्दत् प्रमाणात प्रकटतां गते नापरं प्रत्यक्षमपेक्षणीयमस्ति ; अतः शाब्दमेव ज्ञानमपवर्ग हेतुरित्यभिप्रायः । ननु शाब्दमेव ज्ञानं चेदपवर्गहेतुः, ततस्तस्मिन्नुत्पन्ने संसारधर्मः क्षुत्पिपासादिर्निवर्ततव्यम्; ते त्ववगतेऽपि “ तत्त्वमसि " इति शब्दात् • बलैवाहम्' इति बलारमत्वे, अज्ञावस्थायामिव दृश्यन्ते ; अतस्तलि वृत्तयेऽन्यत साक्षात्कारि ज्ञानमपेक्ष्यमिति चोदयति--नन्विति । यद्यपि " तत्त्वमसि "वाक्यमात्मनो ब्रह्मभावं वदति, न तु ब्रवण आमओवम्; तथाप्यर्थात् सोऽयुक्त इति ब्रह्मात्मभाव इत्युक्तम् । दूषयति-नेति । देहेन्द्रियधमस्ते लाक्षाधर्मा इव मणौ । मिथ्याज्ञानेनात्मन्यध्यस्ताः, न तच्यतः । अतस्तस्मिन् सम्यग्दर्शनपराहते कुतस्तन्निमित्तानां धर्माणामात्मनि संभव इत्यर्थः । अवगतो जक्षण आत्मभावो येनेति विग्रहः । अत एव विदितात्मयाथातथ्यो विदितमात्मनो याथातथ्ये परमार्थरूपं येन सं तथोक्तः । न केवलमुपपत्तिः, श्रुतिरप्यत्रायेंऽस्तीत्याह--भूयते चेति । न हि संसारधर्मानुवृत्तौ ब्रह्मविदो बीभावः श्रुत्युक्तो घटत इति भावः । न च ते ब्रह्मण एव धर्माः, येन ब्रह्मविदोऽप्यनुवर्तेरन्नित्याह-न चेति । पुण्यपापनिमित्तस्तेऽपहतपाप्मनि ब्रह्मणि न संभवन्तीत्यर्थः पाप्मेति पुण्यमप्युच्यते । अत्रैवाथे श्रुत्यन्तरं चाह-तयेति । परमानन्दमद्वयमा- त्मानं चेत् विजानीयात्, ततः किमिच्छन् कस्य च पुत्रादेः कामाय शरीरोपाधिकेन दुःखेन शरीरमनुसंज्वरेत. संतप्येदिति विदुषः संसारधर्मा तिक्रममाह । श्रुत्यन्तरं चाह-तथेति । वाशब्द एवकारार्थं । नन्वियं श्रुतिः शरीरपातादूर्ध्वमशरीरस्य प्रियाप्रियास्पर्शमाह, न तु जीवतः; जीवत एवात्मविदः संसारधर्मप्रसङ्गश्चोदेवः, स तु सशरीर एव ; कथम शरीरभृत्योच्यत इत्याशङ्क्याह-मिथ्येति । न खल्वात्मनः कर्मनिमितः संसारशरीरसंबन्धः, " निष्कलं निष्क्रियम्" इति श्रुतेर्निष्क्रियत्वात्,
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४३१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति