पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

98 बलसिद्धिव्याख्या पेक्षोचिता; न हि संबन्धज्ञानेनेव शमबनचर्यादिभिर्विना शब्दादर्थप्रततिर्न जायत इति भावः । न च वाच्यम्-यदि नाम प्राक् साधनविशेषेभ्यो नावाचक आम्नायः तथापि पुरुषमात्रवाक्यवदनिश्चायकः ; तेन निश्चयार्थं शमाद्यपेक्षिष्यत इति ; यतः पुरुषाश्रयाणां दोषशानामपौरुषेयवेदे नास्ति संभव इत्याह-नापीति । यदि पुनरपौरुषेयोऽप्याम्नायो न निश्चयज्ञः स्यात् । तदाम्नायोपदिष्टेषु शमादिसाधनेष्वपि निश्चयाभावात् प्रवृत्तभुलभा स्यादित्याह--अन्यथेति । ननु यद्याम्नायो निश्चायकः, ततो ‘ब्रह्माहरू ' इत्यपि ततो निश्चयो जातः; तथा सति च कुतः संसारधर्मानुवृत्तिः ? न हि तवनिर्भये जाते मिथ्याधर्मानुवृत्तिर्युक्ता । यतुं दिङ्मूढावुदाहृतम्, तत्र विस्मृततच्वस्य प्रागिव प्रवृत्तिर्युक्ता ; न स्विह तथेत्याशङ्कयोदाहरण न्तरमाह--अपि चेति । रङ्ग' नाव्यस्थाने भरता नटा रामादयो भूत्वा प्रविष्टाः सीतादिवियोगात् दुःखेन रुदन्तः ‘नेमे रामादयःते तु नठाः ? इति तस्यं जानतामपि प्रेक्षकाणां शोकं महजनयन्ति ; तथा व्यापीभूय भयम्, केचिद्वर्षम् ; एवमात्मतवनिश्रयेऽपि सांसारिक धर्मानुवृतिरपि भव तीत्यर्थः । उदाहरणान्तरमाह--निश्चिते चेति । उपसंहरति--तस्मादिति । यस्मादात्मतत्वं जानतामंपि मिथ्यावभासाः शोकभयादीन् संसारधर्माननु- वर्तयन्ति, तस्मात्तनिवृत्तये निश्चितो बक्षण आत्मभावः आत्मवं येनं तेनापि पुंसा शोकादिसंसारघर्मनिवर्तकसाक्षात्कारज्ञानसाधनानि शमादी न्यपेक्षितव्यानीत्यर्थः । विदितात्मयाथातथ्यस्यापि दृष्टार्थ इवादृष्टार्थेऽपि कर्मणि प्रवृत्तिसिद्धेरिति भावः । न चैवं संति यादिकारणसापेक्षवात् मुकेः कार्यता स्यादिति वाच्य मित्याह-यथेति । न वर् यज्ञादिभिः साक्षान्मुक्तिः क्रियते, किं त्वव स्थाविशेषोऽभिव्यज्यते ; ततश्वस्नायात् प्रमाणादारमतवाभिव्यक्ती यथा मुक्तेर्न कार्यता, तथा यज्ञादिसाधनेभ्य आनन्दावस्थाभिव्यक्तिविशेषेऽपि साक्षात्काररूपे । ननु शाब्दज्ञानाच्चेन्न मुकिः कं तु यज्ञाद्यपेक्षात् कथं तंईि ज्ञानान्मुकिमुपविशन्यः " अह्म वेद बच्चैव भवाति ” इत्याद्याः श्रुतयो व्याख्येया इत्याशङ्कयाह--भृतयस्विति । प्रथमं शब्दाद्विज्ञायांप्रम