99 तवं तस्यानुचिन्तनमभ्यासःतस्य परिनिष्पत्तौ सत्यां या विगलितसकल शोकादिसंसारघर्मसाक्षात्कारिज्ञानावस्था तद्विषया इत्यर्थः । एतदुक्तं भवति - लक्ष वेद ” इति विदिना न शाब्दज्ञानमभिधीयते, किं तु साक्षात्कारि ज्ञानमेवेति । यद्वा शाब्दमेव नं विदिनोच्यते इत्येतदाह शब्दसाघनेति । शब्दः साधनं यस्येति तथोक्तम् । शब्दसाधनं च तत् ज्ञानं चेति विग्रहः । तत् ज्ञानं विषयत्वेनापेक्षन्त इति तदपेक्षाः भृतयो भवन्वित्यर्थः । ननु शाब्दज्ञानमात्रान्न मुक्तिरित्युक्तम् , मुक्त्यनुगुणं च ज्ञानं विदिनोच्यते ; तत्कथं शाब्दज्ञानमुच्यत इत्याशङ्कयाह-तडेतुवा- दिति । शब्दज्ञानहेतुत्वादुत्तरस्य साक्षात्कारिज्ञानस्येत्यर्थः । यद्यपि शाब्दज्ञानं न साक्षान्मुक्तिसाधनम्, तथापि मुक्यात्मकसाक्षात्कारिज्ञान हेतुत्वात् पारंपर्येण मुक्तिहेतुतया विदि नोच्यत इति भावः । ९ = एवं कूर्मसाक्षात्काग्ज्ञानयोरुपायोपेयलक्षणसंबन्धप्रदर्शनेन ज्ञानकर्मणो- रसंबन्घषभं दूषयित्वा ऋणापाकरणपक्षमिदानीं दूषयितुमनुवदति---यदपीति । इत्युक्तमिति वाक्यशेषः । तद्दषयति-तदपीति । अपाकृतऋणस्य मोक्षा- धिकार इति यदुक्तं तदपि न नियोगतो नियमेनेत्यर्थः । कुत इत्याह -- आश्रमेति । यद्यपाकृतह्मणस्यैव मोक्षेऽधिकारः ततो गार्हस्थ्यं विन फण-. त्रयापाकरणासंभबत् गृहस्थाश्रममात्रमुपादिशेत् ; ततश्रमविकल्पश्रवणमनर्थकं । स्यात् ; अतो नायं नियमः--यदपाकृतऋणस्यैव मोक्षेऽविकार इति । किं पुनस्तदाश्रमविकल्पस्मरणामिति तदाह- तस्यति । न केवलं स्मृतिः, अपि तु श्रुतिरप्याश्रमान्तरस्थस्यापि मोक्षेऽधिकारमाहेत्याह--यदि वेति । तथा भृत्यन्तराण्याह--एतदिति । अग्निहोत्रादिनित्यकर्मभिर्देवमृणं प्रजया पैत्र्यं स्वाध्यायेनार्षमपाक्रियते । तद्यद्यपाकृतऋणत्रयस्य मोक्षेऽधिकारः स्यात् , ततो मुमुक्षोरग्निहोत्रादिकर्मप्रजाखाध्यायानां त्यागभृतयो न घटेरन्निति ( भावः । एवं च च कर्मत्यागदर्शनादित्युपलक्षणम्, प्रजाखाध्यायत्यागावपि द्रष्टव्यौ । यद्यनपाकृतऋणत्रयस्यापि मोक्षेऽधिकारःका तर्हि ५ ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ’ इत्यादिस्मृतेर्गतिरित्याशङ्क्य पूवों दाहृतश्रुत्यविरोधेन तां व्याचष्टे-प्रतिपन्नत । प्रतिपत्तं प्राप्तं कार्यत्वे 7A
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४३५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति