101 युक्तमेव मन्यमान आह-संस्कारपक्षो वेति । युक्तमिति लिङ्गव्यत्ययेनानु- वर्तते । कुतः पुनः प्रमाणादयं पक्षः तिक्ष्यति, येन युक्तमित्युच्यत इत्या शङ्कयाह--स्सृतेरिति । “ यस्यैते चत्वारिंशत्संस्काराः ” इत्यादिस्मृते- रित्यर्थः । ननु यदि पुरुषसंस्कारार्थानि कर्माणि, न तर्हि विद्योपयोगित्वम्; तच पूर्वमुक्तम्; तत्कथमित्याशङ्कयाह-संस्कृतस्येति । न हि संस्कारः संस्कार्यार्थः । किं तर्हि ? संस्कृतस्य कार्यान्तरोत्पयर्थः; तच्चात्मसाक्षात्कार लक्षणा विचेत्यर्थः । पक्षद्वयमपि सूत्रकारवचनेन द्रढयति--तदुक्तामिति । न केवलं स्वार्थं विद्या शमाद्यपेक्षते, अपि तु बन्नचर्याद्याश्रमचतुष्टय संबई यथाक्रममग्निसमिन्धनाग्निहोत्रतपश्चरणध्यानादिकर्मापि विद्यापेक्षते, विहितत्वादिति सूत्रार्थः अत्र पक्षद्वयेऽपि चोदयति--नन्विति । दृष्टरूपोऽभ्यास उपायो यस्य स दृष्टोपायः साक्षात्करणलक्षणविद्योत्पादः ; अत्र दृष्टैव दृष्टोप- कॉरैवेतिकर्तव्यता चित्तविक्षेपहन्त्री शमदमादिकापेक्ष्यताम् ; दृष्टोपाये हि कार्यं दृष्टैवेतिकर्तव्यता दृष्टा ; यथा अम्न्युपाये पाकेऽग्निसमिन्धनादिका इष्टरूपा; यज्ञादयस्वदृष्टार्थाः, तेन विद्योत्पादेन नापेक्षया इत्यर्थः । चित्तविक्षेपहन्त्रीति शमादेर्दष्टोपकारितामाह । ननु यदि नाम शमादि रितिकर्तव्यता चित्तविसेषहन्त्री, तथाथि विद्योत्पादे कथं तस्या इष्टोप कारित्वमित्यांशइयाह–समाहितस्येति । एतदुकं भवति-शमादिभिः श्चित्तविक्षेपविषातात् तमाहितचित्तः पुरुषो भवति ; समाहितचित्तस्याम्य- स्यतो ज्ञानस्य प्रसादः प्रशान्तिविशुद्धता भवतीत्यर्थः । कस्मात्पुनर्यज्ञा दयो नापेदयन्त इत्याशङ्क्याह-हैरिति । यज्ञादिभिर्विनाप्यभ्यासेनैव ज्ञानप्रसादसंभवादित्यर्थः iअ अभ्युपगमेनैवोत्तरमाह--सत्यमिति । एतदेव द्रढयति-तथाचेति । तैरिति ; यज्ञादिभिरित्यर्थः । ननु पूर्व यज्ञादेवंघ ङ्गत्वमुक्तम् । अधुना विद्ययास्तदनपेक्षत्वमभ्युपगच्छतः पूर्वापरविरोध इत्याशङ्कयाह--किंत्विति । मुक्तेरेकरूपत्वात् खर्गादिवत् साधनविशेषाद् खरूपविशेषो न संभवतीत्यतः फाल्कृत एवात्र विशेषो युक्त इति भावः।। तमेव विशेषमाह---साधनेति । यथा यथा कारणे विशेषः प्रझषं भवति,
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४३७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति