04 नभिव्यक्तखभावस्तज्ज्ञानेन प्राकट्यमुपजनय्याभिव्यज्यताम् ; अभि व्यक्तये चान्यदपेक्ष्यम् ; बन्न पुनरात्मज्योतिर्नित्यामिव्यक्तस्वभावं कथमभि व्यज्यते, अभिव्यक्तये चान्यदपेक्ष्यते इत्याशङ्कय सर्वत्रैवाभिव्यक्ति ताधिकी, किंत, मायामयीति दर्शयितुमाह--न चेति । यदि ज्ञानदर्थे प्राकट्यादिविकारः कश्चिद्भवेत् , ततस्तत्राभिव्यक्तिस्ताविकी स्यात् ; यदा तु नैवम् , तदा सर्वत्रैव सा मायामयी ; तथा ब्रह्ण्यपि किं न स्यात् ? न हि मायायां पूर्वोक्तानुपपत्तिदोषः ; अनुपपन्नायैव हि मायेत्युच्यत इति भावः । ज्ञानादर्षस्य विकाराभावे हेतुमाह-तयेरिति । नासंबद्धं हीन्धन मनिर्विकरोति ; असंबई च ज्ञानमान्तरं बहिरर्थेन ; अतो नार्थं विकरो तीत्यर्थः । अथेतरसंबन्धाभावेऽपि योग्यदेशतालक्षणोऽर्थस्य ज्ञानेन संबन्धो भविष्यतीति चेदत आह--योग्येति । योग्यदेशता अर्थस्यार्जवे- नावस्थानम् , तच्च रूपरसाद संमानाश्रये सर्वत्र समानम् _ अतो रूपज्ञानं रूप इव रसदावपि प्राकव्याख्यं विकारं कुर्यादित्यर्थः । यद्यपि असंनिकृष्टस्य विकारकत्वमग्न्यादिषु न दृष्टमित्ययमत्र परिहारः, तथाप्य भ्युपेत्य परिहारान्तरमुक्तमिति । किंच ज्ञानं चेदर्थे प्राकट्यं जनयेत् ततः कस्यचिदेकस्य ज्ञानेन जाते प्राकव्ये अर्थः सर्वेषां प्रकटः स्यात्, यथैकस्य पाकेन जातौहित्यो घटः सर्वेषां लोहितः, न पक्फुरेव, तदाह सर्वेति । किंच वर्तमानेऽर्थे जन्यतां नाम ज्ञानेन प्राकट्यम् अतीतानागते तु लिङ्गादिगम्ये न तत्संभवःधर्मेण एवाभावादित्यभिप्रायेणाह-- ध्वस्तेति । एवं दृष्टान्तस्वरूपमुपपाद्योपसंहरति-तस्मादिति । स्फटिक द्रव्यं हि लोहितकस्वलेनावकुण्ठनवत् न जपाकुसुमेन तिरोहितम्; नापि तप्रभया, तस्या अप्रभाद्रव्यत्वात्; अथ च तिरोहितमिवाभाति, न तु तच्वतस्तत्तिरोहितम् ; अत एवातिरोहितत्वात् तच्वतो नाभिव्यज्यते, तथा प्यभिव्यज्यमानमिवोपधानापकर्षणप्रयत्नमपेक्षते यथेत्यर्थः । एवं दृष्टान्ते तिडमर्थ वार्यन्तिके योजयति --तथेति । तथात्मतवमपि कृष्णकग्घलेनेव नानाद्यविद्यातिरोहित , तथापि . स्वरूपानवभासात तिरोहितमिव यज्ञादि
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४४०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति