108 ब्रक्षसिद्धिव्याख्या हीति । पठितसिद्धः कश्चिदाम्नायः श्रौतप्रत्यक्षमपेक्षते, तथाचारेषु कर्तृ सामान्यानुमेयोऽनुमानम्, मन्त्रलिङ्गादिगम्यश्चार्थापत्तिम् , प्राकृतश्चाङ्गविधे र्विकृतावुपमानम् । एवं सर्व एवाम्नायः प्रत्यक्षादीन्यपेक्षते : तदधीना हि । तस्य स्वरूपसिद्धिरित्यर्थः । ततः किंमित्याह-तथा चेति तेषामिति प्रत्यक्षादीनामित्यर्थः । कुत इत्याह-- तदिति । तेषां प्रत्यक्षादीनां तत्प्रामाण्यस्य चाम्नायेनापघाघनेऽभ्युपगम्यमाने सत्याम्नायखरूपसैयैव तावत् सिडिर्न स्यात् ; दूरतरस्वर्यस्य यत इत्यर्थः । न च यथाम्नायः प्रत्यक्षादीन्यपेक्षते तथा तान्यपीति, येन तुल्यबलवं स्यात् । अतः प्रत्य क्षादिसापेक्षत्वादाम्नायस्तेभ्यो दुर्बल इत्याह-न त्वेवमिति । इतश्च दुर्बल - इत्याह-दृष्टव्यभिचारत्वादिति । यदेव यथाविधमेकदाथै संवदति वाक्यम्, तदेव तथाविधमेव पुनरन्यदा विसंवदति ; न हि दुष्टोऽपि वक्ता शब्दं कलाध्मातादिना दूषयति । | प्रत्यक्षे तु दुष्टेन्द्रियजं । व्यभिचारि, नेतरदिति विशेषः । प्रत्यक्षग्रहणं तूपलक्षणार्थम्, अनुमानाद्यपि द्रष्टव्यम् । यद्यपि वेदे व्यभिचारो न दृष्टःतथापि लोके दृष्टः शब्दवसामान्यात तत्राशयत इति भावः । इतश्चाम्नायो दुर्बल इत्याह—अपिचेति । ततः किमित्याह-अनवकाशाश्चेति । न तावदरमा प्रत्यक्षादीनामवकाशः, तस्येन्द्रियाद्यगोचरत्वात्; तत्र प्रपञ्चोऽपि चेन्न स्यात् ततो निविषयत्वाद नवकाशास्ते स्युरित्यर्थः । शब्दस्तु सावकाश इत्याह-सावकाश इति । कथमित्याह---गौणेनेति । एतदेव स्पष्टयति-तथा हीति । मिस्रमपि जगत् सत्ताद्यारमना ऐकत्वात् “एकमेवाद्वितीयम् ” इत्युपचर्यत इत्यर्थः । प्रकारान्तरेण सावकाशत्वमाह-विवक्षितार्थनामिति । तदेव द्रढयति- उपनिषद इति ; इदं स्ववचने वेदान्ताना जपोपयोगित्वमाहेत्यर्थः । इत- श्राम्नाय दुर्बल इत्याह-ॐिचेति । व्याकुलस्वमाह--कर्मेति । कर्म विधयो हि यस्मात् साध्यसाधनादिभेदं विषयत्वेनाश्रयन्ते; वेदान्तास्त्वभेद मद्वैतमित्यर्थः । ततः किमित्याह- परस्परेत । अतः परस्परंव्याघातादेव तावत् वेदान्ता दुर्लभप्रामाण्याः ; परस्परमज्यांहतम् । अत एवाम्नायस्वरूप- सिधर्मत्वेन वा सर्ववादिसिद्धार्यत्वेन वा प्रतिष्ठितं प्रामाण्यं येषां प्रत्यक्षा AR
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४४४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति