पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2b यस्य सं मवद्दोषेभ्यः प्रस्यक्षादिभ्यो बलीयस्त्वं युक्तमित्यर्थः । नैकरूपः सर्वत्र भ्रमे भ्रमहेतुः, अपितु विचित्रः; तेनेन्द्रियादिदोषासंभवेऽपि दोषा न्तरं प्रपञ्चज्ञाने कल्पयिष्याम इति सूचनार्थं विचित्रग्रहणम् । तत्राम्नायस्य विगतदोषाशङ्कत्वे हेतुमाह--पुरुषेति । निर्देषाग्नायबलादेवप्रत्यक्षादिषु दोषकल्पनेति पश्चादुक्तमष्याम्नायनिदॉषत्वं पूर्वमुपपादितम् । पुरुषाश्रयो हि शब्दे सर्वो दोषःस तदभावे कथमाम्नाये संभवेदित्यर्थः । ननु प्रस्यदिष्वपि दोषा न दृष्टाः; येषु दृष्टः न तानि प्रत्यक्षादीनि, किंतु तद।भासाः ; न चान्यत्र दृष्टानमन्यत्र प्रमाणं विना कम्पनोचिता, अति प्रसङ्गात्; अतस्तेष्वनुपलभ्यमानविभ्रमहेतुदोषकल्पनायां किं प्रमाणमित्या- २छूय प्रमणमाह- शक्यो हीति । इत एव निदषत्वसिद्धप्रामाण्याद हैतामायान् हैतग्राहिषु प्रत्यक्षादिषु दोषसंभावनानिधयौ" शक्यावित्यर्थः । ननु तिमिरादयो लोके दोषाः प्रसिद्धः ; ते च प्रत्यक्षादिषु योग्यानुप लब्धिवारिताः कथमाम्नायादपि कल्पयितुं शक्या इत्याशङ्कयोक्तम् अनादिरिति । उक्तमिदम्–न हि सर्वत्रैकरूप एव दोषो भवतीति ; तेन तिमिराद्यसंभवेऽपि अविद्यासंस्काराख्यं दोषान्तरं कल्पयिष्याम इति भावः । अविद्या संस्काराख्यदोषोत्पत्तेः प्राक् निदषस्य प्रत्यक्षादेराम्नायेन सह तुल्य बलत्वं प्राप्तमित्याशङ्कच विशिनष्टि-अनादिरिति । दाढर्वसूचनायै वा- हैतदर्शनम् , अविद्यासंस्कारः, ततः पुनर्दैतदर्शनमित्येवमनादिनाविद्यासं स्काराख्यदोषेणानुबद्धत्वात् नित्यमाम्नायात् प्रस्यक्षादेर्युर्बलत्वमिति भावः । अविचैव वा संस्कारः ; संस्क्रियते तया आत्मा अतिशयमिवापद्यत इति कृत्वा अविद्यावासना वा अविद्यातंस्कारः । निश्चय एवात्राभिमतः ; संभावना तु दोषसंभावनमात्रेणापि यावत्प्रत्यक्षादीन्यसंभावितवषादाम्नायात् दुर्बलानि, किमुत निश्चिनदोषाणीति प्रौढवादेनोक्ता । संभावितस्य च साध्यवत् संभावनक्रमेण निश्चय एवोक्त । तदुक्तम्- • संभविनः प्रतिज्ञाय पक्षः साध्येत हेतुना ” इति । क पुनराम्नायात् तिमिरव्यतिरिक्तस्यानादेरविद्यसंस्कारस्य विभ्रमहेतुत्वं प्रसिद्धम्, येनात्र