118 यच्च प्रत्यक्षादिबलवच्वेऽनवकाशत्वं कारणमुक्तं तदपि दूषयति- तथेति । शाब्दप्रत्यक्षयोः समानमित्यनुवर्तते । । समानत्वमाह यति वेदान्तार्थत्वेन प्रसिद्धोऽर्थस्तस्यावकशो वाच्यः नान्यो हिंसानिषेधविचे- रिवनवकाशयज्ञियहिंसाविधिबाध्यस्य बाह्यहिंसा । स च मुख्यो वा गौणो वा ; न तूभौ, वाक्यभेदप्रसङ्गात् तद्यदि मुख्यो वेदान्तार्थः प्रसिद्धः ततो गौणाविवक्षितार्थते न स्त एव ; कथमवकाशः ? अतोऽनवकाशत्व माम्नायस्यापि समानमित्यर्थः । अथ सत्येव द्वये जात्याद्यारमनौपचारिकमे. कत्वं वेदान्तानामर्थः स्यात्, अविवक्षितार्यतो वा जपोपयोगिनामित्युच्यते, ततो द्वये सति तद्विषयैः प्रत्यक्षादिभिः जात्याद्यात्मनौपचारिकैकत्ववाचिनां जपार्थानां वा वेदान्तानां विरोध एव नास्ति विभिन्नविषयत्वादविषयत्वाद्वा; तत्र बलाबलचिन्नैव नावतरति ; विरोधे हि सा भवति । तस्यां च सत्या मेकस्य सावकाशत्वेन दोर्बल्यं तदा भवेत् ; कुतस्तदित्याह-अथेति । पक्षद्वयेऽपि दूषणान्तरमाह--कथमिति । तुल्यकक्ष्योऽर्थोऽवकाश भवति । न च मुख्येन गौणस्य तुल्यकक्ष्यत्वम्, गौणमुख्यन्यायविरोधाचेति भावः । तया वाच्यमर्थं प्रति वचिकस्वेन शब्दस्य शेषभावः अङ्गत्वम् औत्पत्तिकं खाभाविकं "दृष्टो हि तस्यार्थः कर्मावबोधनम्_" + अविशिष्टस्तु वाक्यार्थः इति न्यायसिद्धम् ; । तत् कथमविवक्षितार्थता स्यादित्यर्थः अथोच्यते यत्र प्रमाणान्तराविरोधः, तत्र मुख्यमर्थमुछङ्कयोपचरितार्थत्वमविवक्षितार्थत्वं वा न स्यात् ; इह तु भेदश्राहिमेत्यक्षादिप्रमाणान्तरैरद्याम्नायस्य विरोध मुख्यार्थासंभवे झिगिति तयोरन्यतरन्न स्यात्; तदेतदाशङ्कयति - प्रमाणान्त रेति । तदूषयति--वार्तमिति ; वातागतमेतत् , असरं वेत्यर्थः । असार- त्वमाह-नेति । खतः प्रामाण्यस्य स्थितत्वादिति भावः । मुख्यार्थपरता खभावत्वं खरसम्। प्रमाणान्तरानपेक्षप्रामाण्यस्य स्वरसात्यागे हेतुमाह-तदिति । प्रमाणान्तरापेक्षत्वं प्रमाषान्तरनुगुणतया वृत्तौ हेतुः हि यत इत्यर्थः । व्यतिरेकमाइ --निरपेक्षस्येति । प्रमाणान्तरनिरपेक्षस्य तु प्रमाणस्य सार्थ. हातुमादातुं विरुद्धत्वाविरुद्धत्वाभ्यां प्रमाणान्तरानुसरणे क हेतुः ? न कश्चि वा दित्यर्थः । ननु लोके अनिर्माणवकः इत्यादौ प्रमाणन्तरानुगुणतया शब्दस्य ११
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४५४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति