तर्ककाण्डः 127 इत्यर्थः । ‘प्रियते ’ इति पाठे तु मन्दधियोक्तत्वात् तदुक्को दोषोऽवि चिकित्स्य इत्याशङ्क्य मन्दविषेण वृश्चिकेन दष्टो यो देशविशेषे प्रियते स यथा चिकित्स्यते तथाम्नायोऽपि यो मन्दधिया दूषितो म्रियते बहुभिर्भन्दबुद्धिभिर्विश्रावितोऽप्रामाण्यमृत्युमश्नुते सोऽपि चिकित्सनीय इति योज्यम् । एवमविरोधलक्षणारम्भं प्रतिष्ठाप्य “ आहुर्विषालु ’ इति श्लोकं व्याचष्टे--तत्रेति । तानेव त्रीन् पक्षान् विवृणोति-वस्त्विति । प्रत्यक्ष किं ‘घठोऽयम्’ इति वस्तुस्वरूपमात्रं विधत्ते ? किं वा ‘पटोऽयं न भवति’ इति वस्त्वन्तरं व्यवच्छिनत्ति ? अथ गृहाति व्यवच्छिनत्ति च ? यदाप्युभयं करोति तदापि किं युगपत्ः विधिन्यवच्छेदौ करोति । अय विषये व्यवच्छिनत्ति ? उत तद्यवच्छिद्य विधत्ते ? इति । तत्र तेषु पक्षेषु मध्ये अन्यव्यवच्छेदे उभयस्मिन् वा प्रत्यक्षव्यापारे अभ्युपगम्यमाने भेदः प्रत्यक्षगोचर इति हेतोरास्नायस्य भवति तेन विरोषः । वस्तुखरूप विधिमात्रे कस्यचिद्वस्त्वन्तरस्य व्यवच्छेदेन रहिते प्रत्यक्षव्यापारे सति न मेदः प्रत्यक्षस्य गोचरेः । अस्मात्पुनर्यवच्छेदशून्ये विचैिमाने प्रत्यक्ष व्यापारे भेदः प्रत्यक्षगोचरो न भवतीत्याशङ्कयाह-न हीति । न हि पठमध्यवच्छिन्दत् प्रत्यक्षे घठस्य ततो भेदं गृहाति ; अते व्यवच्छेदं विना न मेदस्य सिद्धिः प्रसिद्धिः ज्ञानमित्यर्थः । यदि नामैवं ततः किमित्यत्राह--विधिमात्रेति । वस्तुवरूपमात्रग्राहकं च प्रत्यक्षम्, नान्यव्यव च्छेदकम् ; अतोऽस्य भेदविषयत्वाभावात् नानेन भेदाम्नायस्य विशेष 3 अत्र परः पृच्छति--कथमिति । कथं विघातुमात्रं प्रत्यक्षम् , न व्यवच्छेदकमित्यर्थः । अत्रोत्तरमाह--उच्यत इति । यदुच्यत इत्युक्तं तदाह--लब्येति । शोकं विवृणोति--न तावदिति । निराकरिष्यमाण विधिपूर्वकव्यवच्छेदपक्षपेक्षया तावच्छब्दः । न तावद्यवच्छेदमात्रं प्रत्यक्ष व्यापारः, नापि युगपद्यवच्छेद विधी, नापि व्यवच्छेदपूर्वं विधानम्; यतः प्रमाणान्तरनिडे विषये तसिद्धमेव निषिध्यते । निषेधवरूपमाह
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४६१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति