182 ब्रह्मसिद्धिव्याख्या निवर्यते । यद्यपि शुक्तिविधेर्निषेधपूर्वता, तथापि रजतनिषेघस्य रजते इमंशप्तमान्यविधिपूर्वत्व। व्यभिचार इति भावः । एतच्च परमतेनोक्तम् । सिद्धान्ते तु न रजतनिषेधशुक्तिविध्योः क्रमोऽस्ति, ‘क्रमः संगच्छते युक्त्या’ इत्यनेन विचारितत्वात् ; वक्ष्यति च –‘न च तत्रैकज्ञानस्य क्रमवयपारता’ इति । एवं विधिपूर्वक एव निषेध इत्यस्याव्यभिचारमुक्त्वा अधुना नैकज्ञानव्यापारे क्रम इत्यस्य बाधकप्रत्यक्षेण यो व्यभिचार उक्तस्तं परिहरति --न चेति । तत्रेति बाधकज्ञानं परामृशति । कुत इत्याह- उमयेति । शुक्तिविधिरजतनिषेधरूपं चित्रमेव बाधकज्ञानं जायते ; जन्म न तस्य व्यापार इत्युक्तम् । न चैकम्, उत्पन्नस्य पुनरनुत्पत्तेः; अनेकत्र च क्रमो भवति ; नैकत्र । तेन न युगपदेव विधिनिषेधौ तत्करोति । अतो नैकत्र ज्ञाने क्रमवब्यापारतेत्यर्थः । न च पूर्वसिद्धविषयनिषेध्या भावादुभयरूपोत्पत्यसंभव इति वाच्यम् , ‘इदं रजतम्’ इति पूर्वज्ञाने तयोर्दर्शितत्वादित्याह--पूर्वज्ञानेति । यथा चैतत्तथोक्तम् । इदनमत्यसै नासंनिहितावभास इत्युक्तंव्यभिचारार्थं बाधकप्रत्यक्षेणासंनिहितावमास इति . यदुक्तं तत्परिहरति –-पूर्वज्ञानेति ; ‘इदं रजतम्’ इति ज्ञानेनावभासेते व्यवच्छेधे रजतव्यवच्छेदस्य प्रवृत्तेर्नासंनिहितरजतावभासप्रसङ्गः प्रत्यक्ष इत्यर्थः । कथमन्यप्रापितमन्यो निषेधतीति चेत् , यथा षोडशिविधिनापितं तान्निषेधविधिः । एवं तर्हि श्रुतिप्राषितप्रतियोगिव्यवच्छेतृत्वात् प्रत्यक्षस्या संनिहितार्थावभासित्वेऽपि न दोषः । नैवम्; , अभिनं चेत् स्मृत्या प्रापितं न प्रतियोगि; भिनं चेत् इतरेतराश्रयम् । ननु प्रत्यक्षप्रापितेऽपि प्रति योगिन्येतदूषणमस्त्येव । अस्तु ; का नो हानिः? किमर्थं तर्हि नोक्तम्! दूषणान्तरविमवात्; प्रत्यक्षमेव वा प्रापकं व्यवच्छेदकं चेति यो मन्यते ते प्रत्यसंनिहितानवभासकस्वं दोष उक्त इति । ननु ज्ञानानामन्योन्य- निरपेक्षाणामुत्पन्तेः कथं पूर्वेणावभासितं व्यवच्छेद्यमनन्तरेण यवच्छिद्यत इत्याशङ्क्याह-पूर्वापेक्षयेति । स्यादेवं यदि पूवपरयोर्जुनयोरत्रानपेक्षता। स्यात् ; सैवातिशI ; माधकं हि बाध्यंमपेक्ष्यैवोपपद्यते, अन्यथा बाधकत्वा योगादिति भावः । पूर्वमपेक्षत होते पूर्वापेति । अत एव तद् द्वि चते; अन्यथेतरतानबवेकरूपमेवविणावित्याह-पूर्वेति । द्विरूपं विद्धि
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४६६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति