तर्फकाण्डः 1B5 तर्जुषलब्धिलक्षणप्राप्तिर्नाम विशेषो व्यवच्छेच प्रत्याश्रीयत इत्याशङ्क्याह -- तत्रेति । तत्र तस्मिन्नन्येषां तद्देशकालवे सत्युपलब्धिलक्षणप्राप्तिर्नाम ये । विशेषः स यस्यैव तद्देशकालस्योपलब्धिलक्षणप्राप्तिरस्ति तस्यैव वेश कालस्य व्यवच्छेदो नेतरस्येत्यवधारणार्थःन पुनरात्मव्यवच्छेदावधार णार्थः, स पुनरनुपलब्धिलक्षणप्राप्तस्यापि भवतीति भावः । अत्र हेतु- माह -संभवतीति । तद्देशकालोऽनात्मा अवरूपभूतोऽनुपलभ्यो य भावः सऽत एवान्योपलब्घावनुपलम्यमानोऽपि संभवति ; अतो } न तस्य व्यव- च्छेदःअकतु उपलब्धियोग्यस्यैवेति युक्तं तत्रोपलब्धिलक्षणप्राप्तेर्विशेषस्या- श्रयणमिति भवः । अत्र दृष्टान्तमाह--रूपेति । यथा रूपोपलब्ध्या नुपलभ्यस्तद्देशकालो रूपस्थानमा रस रूपपृकब्धवनुपलभ्यमान। ऽपि संभवतीति न रूपप्रतिनियमापपलडeथा रसव्यवच्छेदस्तथेत्यर्थः । यस्तु तदात्मा स तेन सह तुल्योपलम्भयग्यतो न तदुपलब्धावनुपलभ्य मानः संभवति । तेनानुपलब्धिलक्षणप्राप्तोऽपि स व्यवच्छेद्य इति न तदर्थमुपलब्धिलक्षणप्राप्तिर्विशेष आश्रयणीय इत्यभिप्रायेणाह--न चेति । अनुपलभ्यमानः संभवतीत्यनुषज्यत । तुल्या उपलम्भयोग्यता यस्य स तथोक्तः । कस्मान्न संभवतीत्यत आह-नियमेनेति । तुयोपलम्भ योग्य तश्चेदस्ति ततो .येन सह । तुल्योपलम्भयोग्धततदुपलब्धौ नियमेनोपलभ्यते, इतरवत उपलभ्यमानवत्; अन्यथा तुल्योपलम्भयोग्यत एव स न स्यात् , न चेदुपलभ्यते ततो न संभवत्येवेति भावः । तदेवं तद्देशकालव्यवच्छेदे दृश्ययं विशेषः; तदस्मव्यवच्छेदे तु दृश्यमदृश्यं चाविशेषेण दर्शनमपाकरोतीति बौद्धेन वमते प्रतिष्ठापित सिद्धान्तबाद्याह—सत्यमिति । तद्देशकालव्यवच्छेदे दृश्यं व्यवच्छिद्यते नादृश्यमिति, तथा तद्देशकालव्यवच्छेदावधारणाय दृश्यत्वं विशेषः न तदात्मव्यवच्छेद इत्ययं विभागः सत्यंमस्ति ; नेदानीं यो दर्शनस्यैककार प्रतिनियमःतस्यान्यव्यवच्छेदे सामथ्र्यं स्यादित्यर्थः । ननु भूतलप्रति नियमस्य दृश्यघटादिव्यच्छेदे सामर्यमस्ति ; । अतः कथमुच्यते नेदानीं दनप्रतिनियमस्य सामर्यमितीत्याशङ्कयाह- तथा हीति । रूप रूप विषये यदर्शनं तद्यथा रूपविधिमात्रोपक्षयात् तत्रैव पर्यवसितं यत्र देशे
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४६९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति