145 त्वत्र सापेक्षी न वस्त्विति । अपेक्षाहेतुश्च तत्र पिनादौ । साधारण जनक- क्रिया विद्यते, यद्यपि जन्यजनकशक्त्याख्यवस्तुनी वयवस्थिते अन्योन्य- निरपेक्षे इत्यर्थः । न द्वितीयेन विना साधारण्यं भवतीति भावः । भेदे तु वैषम्यमाह--भावेति । वस्तुतस्वगत इति; न शब्दगत इत्यर्थः; तेन वस्त्वेव तत्र सापेक्षमिति भावः । इखादावपि यद्वस्तु यावरपरिमाणं तत् तावत्परिमाणमन्यनिरपेक्षमेव खहेतुभ्यो जातम् । शब्दप्रवृत्तिमात्रं तु सापेक्षम्; अपेक्षाहेतुश्चैकजातीयाया देशव्याप्तिक्रियाया न्यूनाचिकभावः यदपेक्षया यस्य देशव्याप्तिक्रियाधिका तत् ततो दीर्घमित्युच्यते; या यस्योना तद्वलभिति । या यावद्देशैकस्य व्याप्तिःअन्यस्य न तावद्देश तदूनम्; इतरदविकमितेि न्यूनाधिकविवेकः तेन न्यूनाधिकयोरन्योन्या पेक्षिताद्दोषो नस्ति । यदि जननकार्यविशेषात् पित्रादावपेक्षा इष्यते, वस्तुभेदोऽपि तर्हि कार्य सैयैव भेदादिष्यतामिति परः प्रत्यवतिष्ठते--यदीति । किं च एवं सति । यद्यपि प्रत्यक्षे वस्तुविधिमात्रव्यापारं न व्यवच्छिनति न तद्वेदे प्रमाणम्, तथापि कार्यमेदादनुमास्यामहे; अतो न मेदस्याप्रमणत्वमपीत्या किंचेति । विषिमात्रमन्यव्यवच्छेदरहितं व्यापारो यस्येति विग्रहः । विपक्षा- दव्यावृत्तौ हेतुरगमक इति ततों व्यावृत्तिमाह-नैकव इति । अन्वयस्त्व- इतिनं प्रत्यसिडो न च बौदैरिष्ट इति नोक्त इत्यदोषः । अत्र हेतु माह--कारणेति । तद्विवृणोति- तदिति । सिद्धान्ती तु कार्यभेदोऽप्यः स्माकमसिद्धःअतस्तेन न भावभेदानुमानम् । नैकस्यानेके खभावाः तद्वेदे भेदप्रसङ्गादिति भेदात् भेदनसाधनमशोमनमित्याह-तदिदमिति । यदप्युक्तं कारणैकवे कार्यभेदो नावकल्पत. इति, तदप्ययुक्तम्, एकत्वेऽपि तद्दर्शनादित्याह--अपि चेति । दाहादिकार्यभेदात् । ‘दाहकः पाचकः’ इति व्यपदेशमात्रं भिद्यते, न तु वस्त्वित्यर्थः । शेषं सुगमम् । अर्थक्रियाकृते भेदे अङ्गीक्रियमाण इत्यन्वयः । नन्वत्रापि रूपादिसमुदाय मात्रं वह्निः; न त्ववयव्येको भिन्नोऽभिन्नो वा संभवति ; अतो रूपादि- गुणभेदादेव कार्यभेद इत्याशङ्कयतिं- अयेति । सिद्धान्ती तु भवत्वेवम् ) तथा
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४७९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति