152 बसिडिव्याख्या अव्यतिरेकेऽपीति । दीर्घकालादव्यतिरिक्ता धर्मास्तद्वदेव दीर्घकाला न, पुनर्भितकला भवन्ति ; अतस्तथैवानन्तस्याप्यन्तवान् धमें भवि- ष्यतीत्यर्थः । यस्तु क्षणिकवादी दीर्घकालमर्थं न प्रतिजानाति तं प्रति दृष्टान्ता सिडौ तेन दृष्टान्तेन नैकत्र भावाभावयोः समावेशः सिध्यतीत्याशङ्कय तं प्रत्येकत्र भावाभावयोः समावेशं दर्शयितुं पूर्वोक्तमेव श्ले|कार्ध पुन योजयति--यस्त्विति । तद्विवृणोति--एक इति । एको वह्क्षिणः किंचिदेव तृणतण्डुलादि दहति पचति च, न जलादि; तथा च तृणादीन प्रति दाहकः पाचकश, जलादिषु न तथा, न च भिद्यते; तस्मा देकत्रापि शक्त्यशक्त्यादिलक्षणभावाभावधर्मदर्शनानं ततो भावभेदावगति रित्यर्थः । अस्मिन् पक्षे क्वचित् दाहपाकयोर्भावः कचिदमाव इत्ययं विभागों व्याख्येयः । ननु विषयभेदादत्राविरोधो युक्तः ; शक्यशक्ती स्वेकविषयेणैकस्य विरुद्ध इत्याशङ्कय तदेव छोकार्थं पुनरन्यथा योजयति-तथेति । एकोऽपि वह्निक्षण एकस्मिन्नेव दा पाक्ये च किंचित् दाहं पाकं च करोति ; तेन दाहकः पाचकश्च ; ततोऽन्यन्न करोतीत्यदाहकोऽपाचकश्चेति ‘न च भिद्यते’ इत्यनुवर्तते । अयमेव च दाहपाकविभागो योज्यः । एवं क्षणवादिनमेव प्रति साशङ्कमेकत्र समा- वेशं दर्शयितुमुदाहरणान्तरमाह--तथेति । बौद्धा अभिमन्यन्ते—बीजमशक्तं चेत् क्षित्यादिसंयोगेऽपि नाडुरं जनयेत् सिकतावत् शक्तं चेन्न क्षित्या द्यपेक्षेत ; क्षित्याद्याहितविशेषं जनयतीति चेत्, न तर्हि खतः शक्तम्; अशक्तं चाहितविशेषमपि न जनयति, दुष्टबीजवत् । अपि च विशेषे सति भावादप्रति च बीजे सत्यप्यभावात् स हेतुः स्यात्, न बीजम्_ । न च स भिन्नोऽभिन्नो मित्रामिने व संभवति । तस्मात्सदृशेक्षणपरं पराप्राप्ताः क्षितिबीजादिक्षणाः प्रत्येकं शक्ता अप्येकमेवाडुरं कुर्वन्ति, प्रतिवमनेकान् । ननु कृतस्य करणाभावात् यदेकेन कृतं तस्यान्येन करणं न स्यात्; स्यादेवं यदि क्रमः स्यात्; सह क्रियायां तु कुत इत्येव नास्ति । यस्यापि सामग्री जनिका तस्यापि सा एकमेवाङ्करं जनयति, नङ्कारान्तराणि । तथाच सत्येकस्यापि जनकत्वमजनकत्वं च
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति