154 बलसिद्धिव्याख्यां A त्याह—औपाधिक इति । यदि सहकारिसंनिधानोपाधिभेदाद्वेदः, औपाधिक सहैिं ; यश्चौपाधिकः स प्रतीयते परम् , न वस्तु संस्पृशति, बिस्बप्रति बिस्वयोरिव ; अतोऽपरमार्थः; अपरमर्थश्च भावानां भेदोऽस्माभिरभ्युपेयते । अतेऽस्मत्पक्षमेवाश्रितोऽसीति भावः । क्षणिकवादिनस्तु केवलात् पयः- क्षणात् सहकारिसहितः पयःक्षणोऽत्यन्तभिन्नः; तथा सिकतापीति सापि ददानि विनियुज्येत । अथादृष्टशक्तिस्वात् सिकता दक्षि न विनियुज्यते, ततो नवेऽपि पयःक्षणः पूर्वमसचात्र दृष्टशक्तिरिति न विनियुज्येत । न चैकजातिमुखेन स दृष्टशक्तिरिति वाच्यम् , जातंतंरनभ्युपगमादिति । भावः । अथानादिवासनकल्पितैकजातिमुखेन दृष्टशक्तेः पयःक्षणात् नव- स्याभेदातस्मिन् दृष्टशक्तावयमपि इष्टशक्तिरित्यस्य विनियोगसिंडःन सिकताया विजातीयक्षणाया इत्युच्यते, ततः परस्याप्यभेदवादिनोऽविद्या- कल्पितानेदात् पयःसिकतयोविनियोगाविनियोगौ सेस्यत इति विनियोगा- विनियोगज्यस्थया भावभेदकल्पना व्यथैवेति भावः । एवं भेदाभेदवादिनं प्रत्याह - योऽपीति । यथा भेदाभेदौ चैिरुद्वौ धर्मवेकत्र भवतः, तथा जनकत्वाद्यपीति न ततस्तिलपयसोभेदसिद्धिरित्यर्थः । जनकत्वाजनकस्वा- भ्यामित्युपलक्षणम् ; शक्यशक्यादयोऽपि सर्वे द्रष्टव्याः । इदानीं सर्वं पूवोंक्तमर्थमुपजीव्य स्वपक्षमुपसंहरति--तदिति ; तस्मा दित्यर्थः । सहः क्षम इत्यर्थः । श्लोकार्थं विवृणोति-एकत्रेतिं । ‘अर्थ- क्रियाकृते भेदे' इत्यत आरभ्य यावदुक्तं तत्सर्वम् ‘एवम्' इत्युप जीवितम् । तदेव 'एकत्र' इत्यादिना संभवात् ’ इत्यन्तेन सुखस्मरणा यानुकीर्तितम् । ‘व्यवस्थायाश्च’ इत्यत्र ‘ अनैकान्तिकत्वात् , असिद्धत्वाद्वा इत्यनुवर्तनीयम् । इममेव खपत्रं श्रुत्या द्रढयति-तदेतदिति । श्रुतं विवृणोति--एतदिति । यद्दतम्_” इत्यत्र ‘यदेकोऽपि’ इत्यनुवर्तते । ‘अतो ज्यायान्" इत्याशङ्कितोत्तरं योजयितुमाशङ्कां तावदाह--पूर्वेति । सहस्रMadhava char n (सम्भाषणम्) इत्यादौ पूर्वस्मिन् ऋग्द्वये निर्दिष्टानां विरुद्धत्वेनाभिमतानां धर्मकार्यव्यवहाराणामेकोऽपि सन्’ कथमाश्रय इत्यर्थः । तत्रैकस्य सहस्र शीर्षत्वमदृष्टत्वाद्विरुद्धम् । सर्वभूमिव्यापिनस्तु दशाङ्गुलत्वमन्याय्यम् ।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति