पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीकूण्ड 159 नवधारणात् । तस्मात् भिन्नडभावेन विशिष्टौ च विषयनिषेध्यौ प्रतिपद्य परेण निषेधः प्रतिपत्तव्यः ; एवं हि स संभवेत्; अन्यथा विषयनिषे ध्ययोर्विभागाप्रतिपत्तौ न संभवेत् । विशिष्टयोश्च तयोः प्रतीतौ काचिदेव निषिध्यत इनिं नियमः स्यात् । अन्यथा सर्वः सर्वत्र निषिध्येतेत्युक्तम् । किंच प्रतियोगी निषेध्यः; न चानवगतमेदः स भवति ; अन्यथा स्वस्य खयं स स्यात् । यद्वा अनवगतभेदः सामान्यमत्रेणावगतः प्रतियोगी भवति । ततः स्थाणावविशेषेण प्रतीते पुरुषोऽप्यूर्वेतासामान्येन प्रतीतः प्रतियोगी स्यात् ; अतस्तस्याप्रतीतिः स्यात् । न चैवम् । अतश्च मिसौ निषेध्यविशेषौ बुद्धौ खीकृत्याभावः प्रतिपत्तव्य इति सिद्धम् । तथाच लोकेऽपि तत्प्रतीतिस्तथैव प्रत्यात्ममुपलक्ष्यते । तथाच सति विषयनिषेध्ययोर्मेदज्ञाने सत्यभावप्रतीतिःतस्यां च सत्यां तयोरन्योन्या- भावात्मकभेदप्रतीतिरितीतरेतराश्रयवं स्यादित्यर्थः । इदानीमितरेतराश्रयत्वमुच्चैकमाह--अपिचेति । नानुपलब्धिमात्रात् वस्वभावज्ञानम् , सुषुप्तेऽपि प्रसङ्गातू ; किंतु उपलब्धिसाधनसाकल्ये सत्यनुप लब्ध्या । न हि सुषुप्तेऽनुपलब्धिलक्षणः स्वरूपाविशेषः कश्चिदस्ति, यस्य सामर्थातिशयात् चक्षुरादैिरिव रूपादेरभावस्य बोधकः : किंतु प्रमाण सामवैकल्येन तत्रानुपलठिधः । अवैकल्ये तु प्रमेयाभावमन्तरेण तदसंभवा । नान्तरीयकस्वेन सा वस्वभावं गमयति । एव च धूमादिवत् ज्ञाता स। गमिकेत्यापन्नम् । सा च द्विविधेष्टा --प्रतियोर्युपलब्धिरूपेणात्मनोऽपरि- णामो वा, ततोऽन्यस्य वा विषयस्य ज्ञानम् ; तदुक्तम्-- सात्मनोऽ रिणामो वा विज्ञानं वान्यवस्तुनि " इति । तत्र यद्यन्यवस्तुज्ञानमनुप- लब्धिः, ततो नामिडे वस्तुभेदे सा सिंध्यति । अतस्तज्ज्ञानाय वस्तुधेदो ज्ञातव्यः । न च वाच्यम्-निषेपज्ञानादन्यत् ज्ञ(नमनुपलब्धिः ; अत ज्ञानभेदोऽत्र गम्यते, न वस्तुभेदः; तत्कथमुच्यते 'नसबै वस्तुनेद' इति ? । यतो ज्ञेयानुमेयं तज्ज्ञानम् , अतो भेदोऽपि तस्य . झेय भेदानु मेय इत्यर्थः । ज्ञेयवस्तुमेदो विज्ञातव्यः ; ततस्तु भेदं विनान्यत्वातिडे भेदे ज्ञातेऽनुपलब्धिघज्ञानम् , तस्यां च ज्ञातायामन्योन्याभावात्मकभेदज्ञान मितीतरेतराश्रयत्वं स्यात् । अथात्मनोऽपरिणामोEनुपल्लठ्धिः, सापि नात्मनः