पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6] फकाण्डः प्रमानुत्पादोऽनुपलब्धिः, द्वयोः सन्मामैकरूपत्वात्; एझोपलब्धौ चेनर स्यापि तेन रूपेणोपलब्धवात्; अते । नेतरत्रेतराभावज्ञानं संभवतीत्यर्थः । अत्र सत्तापह्नववादी चोदयति --नन्विति । एकरूपप्रत्यभिज्ञानात् गोव्यक्तिषु गोत्वमुपेयते । न च यथैकां गां दृष्टवतो गवान्तरे तदति, तथा सर्षपं दृष्टवतो मेरौ । तस्मान्न सत्तासामान्यमस्ति । ऋथं तर्हि अत्यन्तभिन्नेष्वनन्तेष्वेकभालम्बनं विना ‘सत् सत् ' इति शब्दप्रत्यययो- रनुवृत्तिः ? पाचकादिवदुपाधियोगेन भविष्यति । कः पुनरुपाधिः ? प्रमाण विषयता । या lह प्रमाणविषयः, त लाकः “ सन्’ इत्याचष्टे, नात- द्विषयं रवपुष्पादीत्यर्थः । तद्दषयति--नैतदिति । न खलु द्वयोरन्योन्य- प्रतिषेघमन्तरेण भेदप्रतीतिः; न केवलो विधिसमकालो विधितः पश्चाद्वा प्रतिषेधल्यः प्रमाणव्यापारः संभवति । न च वस्तुविधिरेवान्यप्रतिषेध इति ‘लब्धरूपे कचित्’ इत्यादै वर्णितम् । अतो न भेदः प्रमाणस्य विषयः । तद्यद्यभिन्नमपि रूपं न गृहोत, निर्विषयमेव प्रमाणं स्यात् । तच्च नः सत्ता अतोऽशेषभावगतममिन्नमेकं रूपमेष्टव्यम् । । सैव च प्रमाणस्य विषयः; न भेदाः । तेन भेदा एव प्रमाणविषयतया शब्द सन' प्रत्याभज्ञान वाच्या इत्यपि प्रत्युक्तम् । यतु मेरुसर्षपयोः 'इति नास्तीत्युक्तम् । तदसिद्धम् ; अस्त्येव हि सद्पतया तत्रापि प्रत्यभिज्ञानम् । अथ सत्यपि सद्पानुगभे वैलक्षण्यानेत्युच्यते, तर्हि यादृशमेकस्यां गवि व्यक्तं न तादृशमेकां गां दृष्टवत गवान्तरे, व्यक्तिभेदादिति तत्रापि न स्यात । अथास्ति तत्र तावत् सत्यपि व्यक्तिभेदे “ स एवायम्’ इति वापरानु: संधानम् , न तु सतः सर्षपस्य सदन्तरे मेरौ ; सत्तावादिनः ’सोऽयम्' नभिन्नरूपसंवित्तितः इति पूर्वापरानुसंघानादेकत्वम् , ; तेन मेरुसर्यपयोः सत्यभिन्नरूपसंविदनुगमेऽपि सोऽयम् ’ इत्यनुसंधानाभावान्नैक्ररवमिति ; तदिदमयुक्तम् ; अनुसंधानं विनाप्यभिन्नरूपसंवित्तित एव प्रथममेकव्यक्झि दर्शने तदेकत्वनिश्चयात् । अनुसंघानं हि देशक़ाल भेदेन पुनर्देशने भवति ; न च प्रथमदर्शने सोऽस्ति । तस्मादभिन्नरूपसंवित्तित एवानेक . त्वैकत्वनिश्चय इति सिद्धम् ; तथा महिषीमण्डलाद्यावृत्तात् ‘गौः इत्यभिन्नरूपान्निर्विकल्पकप्रत्ययानथमादेव गोमण्डले गोव्यतीनां देशभेदेs. 11