16B इत्यादवेवावेदितम् । अतश्र खमदृश्याळातचक्रादिज्ञानवत् जाग्रदृश्यालात- चक्रादिज्ञानं यथा सदपि न तवानुगमनिमित्तं तथा भेदज्ञानमपि । ननु न भेदः केवलः, न विधिसहितः, न विधेः पश्चात् प्रमाणस्य व्यापारः इत्युक्तन्यायेन प्रमाणादन्यतोऽपि मेदज्ञानस्योदयो न भवतीत्युच्यते; को वान्ययाह ? वयमपि भेदमपहुवाना मेदज्ञानानुदयमेव ब्रुमः न हि पर मार्थतो भेदावगमोऽस्ति ; यदि स स्यात् , ततो निर्विषयस्य ज्ञानस्य- संभवात् कथंमस्माभिर्भेदोऽपद्येत ? अपह्नवे च प्रागुक्तहेतुमिः कथं भेदावगमः न ह्यवगम्यं विनावगमो घटते, सकर्मकत्वादवगतेः। ननु यदि भेदतदवगमौ न स्तः , तर्हि यदिदं जगद्भिन्नं भाति तत्किमुच्यते ? अविद्या । तामेव पयोयान्तरेण व्यनक्तं-विभ्रम इति ; अज्ञानमविद्य, तदुपादानो वा विभ्रम इत्यर्थः । स चानिर्वचनीयःतथाहि-यथावभासं वेद्यसद्भावे न विश्रमः, किंतु सम्यग्ज्ञानं स्यात् । असति च वपुष्पवदवगमोऽनुप पन्नः । तस्माद्विभ्रमः सदसवाभ्यां निश्चित्य लोके नोच्यते । अतोऽ• निर्वचनीय एवासौइत्यंभूतयैव सर्वप्रवादेषु सिद्धत्वात् । एतच सर्वप्रवादिमित्रेत्थमियमास्येया’ इत्यत्रक्तम् । उक्तमप्यनिर्वचनीयत्व प्रसङ्गात् पुनरुक्तम् । अथवा तत्रार्थविभ्रमस्यानिर्वचनीयत्वमुक्तम् ; इह तु ज्ञानविभ्रमस्येति विशेषः । तदा च ज्ञेयं विना ज्ञानं नास्ति, तत् किमिदं यत्सर्वस्य भेदज्ञानमवभासते ? इति प्रश्नो योज्यः । वेद्यसद्भावे इति चाविवक्षितकर्मनिदेशः । अवभाससद्भावे; ज्ञानसद्भाव इत्यर्थः । तदेवं ज्ञानद्वये सत्यपि किं तद्युक्स्या विरुध्यते नवेति परीक्ष्यम् । तत्र च भेदज्ञानं न प्रमाणसामथ्र्यमितिं आहुविघातू ’ इत्यत्र 'क्रम संगच्छते’ इत्यत्र च युक्स्या विरुध्यत इत्यादितमस्मामिः । अतो न . भेदः परमार्थेत इति भावः । किंतु इतोपि तत् ज्ञानद्वयं परीक्ष्यमित्याह--अषिंचति । त कल्पनामाह –नभेदादिति । अनुवृत्तव्यावृत्तज्ञानभेदात् यथाज्ञानं च वस्तुयवस्थितेः सामान्यव्यक्किविभागेन वस्तुद्वयमाहुः काणादाः , जाति य व्यक्योरत्यन्तभिन्नयोः समवायरूपं संसर्गमाहुः । यद्वा ज्ञानद्वयस्य सन् ‘ घट’ इति सामानाधिकरण्धेनोपपत्तेः, अत्यन्तभेदे च तदसंभवान् समन्थ-
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति