164 ब्रह्मसिद्धिव्याख्या विशेषात्मकमेकं धस्तु ; यथाहुरनेकान्तवादिनो भाट्टाःये जातिव्यक्त्योरे कान्तेन न भेदो नाप्यभेद इत्याहुः । यद्वा व्यक्तय एव वस्तूनि; न सामान्यं वस्तु । जातिरूपेणाभेदः । स च भिन्नाभिन्नजात्यसंभावात् सर्वपुंसां स्वाभाविकत्वात् व्यक्तिगतात्यन्तिकभेदनिश्चयसामर्यादनादिवास नावशात व्यक्युपादानो व्यक्तिविषय एव कल्पनाज्ञानगोचरः । न चेदमदृष्टम् ; दृष्टा हि भिन्नेषु तरुषु ‘वनम्’ इत्यभेदकल्पनेति बौद्धाः एकमद्वयं वा तवम् । तस्य देशकालाद्यनवच्छिन्नस्य अत एवानन्तस्य तेन रूपेण विद्यया निश्चेतुमशक्तेरविद्यायाश्वानादित्वात् अनादयोऽनपेक्षिता गन्तुककरणादिदोषाश्चाभेदोपादानास्तत्प्रभवत्वात् तद्विषयाश्च तत्रैवात्पत्ते भेदकरपनमः । नेदमदृष्टम् ; दृष्टा हि तरङ्गभेदादभिने चन्द्रमसि भेद करुपनेति स्वमतम् । तदेवं वादिविप्रतिपत्तेः संशये नापरीक्ष्य तच्वनिश्चय इति सत्यप्यनुवृत्तघ्यावृत्ताकारे ज्ञानद्वये परीक्षा कार्येत्यर्थः । तत्र परी क्षायां प्राप्तायामाह---न तावदिति । न तावत्सामान्यविशेषाख्यमत्यन्त- भिन्नं वस्तुद्वयम् , ऐकात्म्येन जातिव्ययोरभेदेन ‘सन् घटः " इति । ज्ञानस्यानुपपत्तेः । न ह्यत्यन्तमिन्नयोर्घटपटयोरिव सामानाधिकरण्यं दृष्टम्_ । समवायाख्यसंबन्धुकृतं तदैकात्म्यज्ञानमिति चेत् ; तन्न ; तत्रापि तयो रूप मेदस्यापरिच्युतेरनपायात् सैव भिन्नरूपयोरैकाम्यज्ञनानुपपत्तिरित्यर्थः । एतद्याचष्टे--नेति । न तावदनुवृत्तव्याधत्तप्रख्ययोभेदत् नीलपीतबद• त्यन्तभिन्नौ सामान्यविशेषौ दो वस्तुनी इति योज्यम् । अत्र हेतुमाह- समानेति संबन्धस्याप्रतिमासनादिति; यत्र भिन्नयोर्विशेषणविशेष्यभावः, तत्र मतुबर्थः संबन्धोऽवभाति ; यथा, दण्डी’ इति । न तथेह ‘सत्तावान् घटः’ इति तत्संबन्धस्य प्रतिभासनमस्ति ; किंतु ‘सन् घटः । इत्यैकात्यस्येत्यर्थः । यदि नाम समानाधिकरणत्वेनेमे प्रख्ये भवतः, तथापि किमित्यत आह--न चेति । सामान्यविशेषौ वे चेद्वस्तुनी भिन्ने स्याताम्, ततस्तयोः संबन्धे सत्यपि ‘सन् घटः' इति सामानाधिकरण्यं न स्यात् , यतः संबन्धेन सामान्यविशेषद्वयं विशेषणविशेष्यद्वयग्राहिणा बुडिद्वयेन एकया वा विशेषणविशिष्टविशेष्यग्राहिण्या खुञ्च दण्डी पुरुषः इतिवत विशेषणविशेष्यभावेन गृणेत , न पुनरैकाम्येन । इह च ‘सन
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति