166 वक्षसिद्धिव्याख्या % न ह्यस्ति विशेष इत्युक्तम्; तत्र चोदयति--नन्विति । अन्ययो दृष्टम् गुडादिषु संसर्गस्य भिन्नयोरग्निलोहगुडकयोर्चेदतिरोधानसामर्थे ; तथाहि-- आग्नरयम्’ इति लोहगुडकं प्रतियन्ति । तेन दृष्टत्वात्तत्राभ्यु पेयते ; नैकस्य नानावभाससामर्यम् , अदर्शनादिति परोक्तविशेषमाशङ्कय सिद्धान्ती पुनरविसेषमाह-इष्ट इति । भिन्नयोगेदतिरोधानसामर्थे नाम धर्मः संसर्गस्य दृष्ट इत्यस्ति विशेष इति यद्युच्येत, तत्रोच्यते-नायं विशेषः; एकमपि हि चित्रं रूपमेका च बुद्धिर्नानावभासते यत इत्यर्थः । तद्विवृणोति- दृष्टमिति । वाच्यं रूपान्तरं न च चित्रं नाम पठस्य नास्त्येव, तन्तूनामेव तु नीलपीतादिरूपाणि समाहितानि परस्परमिलि. तानि चित्रमित्युच्यत इति ; यतो नीलादिरूपाणां तन्तुषु समवेतत्वात् पटस्तर्हि नीरूपः स्यात् । नीरूपत्वे च विषयसंस्कारातिशयः रूपलक्षणस्य विशेषस्याभावाद्वायुवदचाक्षुषः स्यात् । खयमरूपस्यापि पटस्य रूपिषु तन्तुषु समवायादेकत्वादिसंख्यागत्यादिकर्मणोरिव चक्षुषत्वं स्यादिति चेत् ; तन्न; यस्मादेवमुक्तं वैशेषिकतन्त्रे- महति द्रव्ये यणुकादौ विषये 'या उपलब्धिश्चक्षुषी सा अनेकद्रव्यसमवायात् रूपाच' इति । तत्र परमाणोः रूपवतोऽपि चाक्षुषत्वनिवृच्यर्थमनेकद्रव्यसमवायादित्युक्तम् । अनेकत्वं चात्र बहुत्वमभिप्रेतम्; तेन द्वयणुकस्याप्यचक्षुषत्वमुक्तं भवति । अनेक- अमेक द्रव्यसमवेतस्यापि वायोश्चाक्षुषत्वनिवृत्त्यर्थं रूपादित्युक्तम् । यद्वा द्र०पसमवायादिति महवोपलक्षणम् ; तेन महवादित्यर्थः । तत्र महवेन परमाणुद्वयणुकयोर्निवृत्तिः, षादित्यनेन च वाय्वादेरिति । एतदुक्तं । भवति-गुणकर्मादेर्नारूपस्यापि द्रव्यसमवायाच्चक्षुषत्वम् , न द्रव्यस्य ; तस्य तु रूपादेव चाक्षुषत्वम् । अतः पटस्य चित्ररूपानभ्युपगमे तस्याः चाक्षुषत्वप्रसङ्ग इति । किंच खयमरूपस्याप्यस्ति चेच्चाक्षुषत्वम् , ततो घटादेरपि रूपिसावयवसमवायेन चक्षुषत्वोपगतेः खयमरूपत्वं स्यात् । अथ द्रव्यस्यारूपस्य चाक्षुषत्वं नेष्टमिति घटादेर्नारूपत्वप्रसङ्गः, ततश्चित्रेऽपि पटे तथैव स्यादिति सोऽपि नारूपः । अतोऽस्ति चित्रं रूपम् । तत्रैक मपि नीलादिप्रभेदेनाबासत इत्येकस्य नानावभासः । तथा नगरबुद्धेः त्रैलोक्यबुद्धेश्च भेदाभावेऽपि खत एकत्वेऽपि गृइप्रासादादिभेदेन नानाव
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५००
एतत् पृष्ठम् अपरिष्कृतम् अस्ति